श्रवणम्

1.61.10
अ॒स्येदे॒व शव᳚सा शु॒षन्तं॒ वि वृ᳚श्च॒द्वज्रे᳚ण वृ॒त्रमिन्द्र᳚ः ।
गा न व्रा॒णा अ॒वनी᳚रमुञ्चद॒भि श्रवो᳚ दा॒वने॒ सचे᳚ताः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । ए॒व । शव᳚सा । शु॒षन्त᳚म् । वि । वृ॒श्च॒त् । वज्रे᳚ण । वृ॒त्रम् । इन्द्रः᳚ ।
गाः । न । व्रा॒णाः । अ॒वनीः᳚ । अ॒मु॒ञ्च॒त् । अ॒भि । श्रवः᳚ । दा॒वने᳚ । स॑चे᳚ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यैवेंद्रस्य शवसा बलेन शुषंतं शुष्यंतं वृत्रमिंद्रो वज्रेण वि वृश्चत् । व्यच्छिनत् । तथा गा न चोरैरपहृता गाव इव व्राणा वृत्रेणावृता आवनी रक्षणहेतुभूता अपोऽमुंचत् । अवर्षित् । तथा दावने हविर्दात्रे यजमानाय सचेतास्तेन यजमानेन समानचित्तः सन् श्रवः कर्मफलभूतमन्नमभ्याभिमुख्येन ददातीति शेषः ॥ शुषंतम् । शुष शोषणे । श्यनि प्राप्ते व्यत्ययेन शः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे । विकरणस्वर एव शिष्यते । व्राणाः । वृञ् वरणे । कर्मणि लटः शानचि बहुलं छंदसीति यको लुक् । शानचो ङित्त्वाद्गुणाभावे यणादेशः । अवनीः । अवतेः करणेऽर्तिसृध्यधमीत्यादिना (उ २-१०३) अनिप्रत्ययः । प्रत्ययाद्युदात्तत्वम् । दावने । आतो मनिन्निति वनिप् । चतुर्थ्येकवचनेऽल्लोपाभावश्छांदसः ॥ १० ॥