ऐषु᳚ वि॒श्वपे᳚शसं॒ धियं᳚ धाः प्रा॒तर्म॒क्षू धि॒याव᳚सुर्जगम्यात् ॥
पदपाठः (Word-by-word)
आ । ए॒षु॒ । वि॒श्व॑पे᳚शसम् । धिय᳚म् । धाः॒ । प्रा॒तः । म॒क्षु । धि॒या॑व᳚सुः । ज॒ग॒म्या॒त् ॥
सायणभाष्यम् (Sayana Commentary)
हर्योरश्वयोर्योजनं यस्मिन्रथे स तथोक्तः । तस्य स्वामित्वेन संबंधी हारियोजनः । हे हारियोजनेंद्र गोतमासो गोतमगोत्रोत्पन्ना ऋषयः सुवृक्ति सुष्ठ्वावर्जकान्यभिमुखीकरणकुशलानि ब्रह्माणि स्तुतिरूपाणि मंत्रजातानि ते तवैवाक्रन् । अकृषत । एषु स्तोतृषु विश्वपेशसं बहुविधरूपयुक्तं धियं धाः । धिया लभ्यत्वाद्धीर्धनमुच्यते । यद्वा । धीशब्दः कर्मवचनः । पश्वादिबहुविधरूपं धनमग्निष्टोमादिकं बहुविधरूपं कर्म वा धाः । धेहि । स्थापय । प्रातरिदानीमिव परेद्युरपि प्रातःकाले धियावसुर्बुद्ध्या कर्मणा वा प्राप्तधन इंद्रो मक्षु शीघ्रं जगम्यात् । अस्मद्रक्षणार्थमागच्छतु ॥ एव । निपातस्य चेति संहितायां दीर्घः । सुवृक्ति । सुपां सुलुगिति शसो लुक् । आक्रन् । करोतेर्लुङि मंत्रे घसह्वरेत्यादिना च्लेर्लुक् । अंतादेशः । तस्य ङित्त्वाद्गुणाभावे यणादेशः । इतश्चेतीकारलोपे संयोगांतलोपे चाडागमः । धाः । छंदसि लुङ् लङ् लिट इति लोडर्थे लुङिगातिस्थेति सिचो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ १६ ॥