श्रवणम्

1.58.6
द॒धुष्ट्वा॒ भृग᳚वो॒ मानु᳚षे॒ष्वा र॒यिं न चारुं᳚ सु॒हवं॒ जने᳚भ्यः ।
होता᳚रमग्ने॒ अति᳚थिं॒ वरे᳚ण्यं मि॒त्रं न शेवं᳚ दि॒व्याय॒ जन्म᳚ने ॥
▶ पदपाठः (Word-by-word)
द॒धुः । त्वा॒ । भृग᳚वः । मानु᳚षेषु । आ । र॒यिम् । न । चारु᳚म् । सु॒॑हव᳚म् । जने᳚भ्यः ।
होता᳚रम् । अ॒ग्ने॒ । अति᳚थिम् । वरे᳚ण्यम् । मि॒त्रम् । न । शेव᳚म् । दि॒व्याय᳚ । जन्म᳚ने ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वा त्वां मानुषेषु मनुष्येषु मध्ये भृगव एतत्संज्ञा महर्षयो दिव्याय जन्मने देवत्वप्राप्तये चारुं रयिं न शोभनं धनमिवा दधुः । आधानसंभारेषु मंत्रैः स्थापनेन समस्कुर्वन् । कीदृशं त्वाम् । जनेभ्यः सुहवं यजमानार्थमाह्वातुं सुशकं होतारं देवानामाह्वातारं अतिथिमतिथिवत्पूज्यम् । यद्वा । देवयजनदेशेषु सततं गंतारम् । वरेण्यं वरणीयं मित्रं न शेवम् । यथा सखा सुखकरो भवति तद्वत् सुखकरमित्यर्थः ॥ दधुः । लिट्युस्यातो लोप इट चेत्याकारलोपः । युष्मत्तत्ततक्षुःष्वंतःपादमिति विसर्जनीयस्य षत्वम् । सुहवम् । ह्वयतेरीषद्दुःसुष्विति खल् । बहुलं छंदसीति संप्रसारणम् । परपूर्वत्वम् । गुणावादेशौ । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ६ ॥