श्रवणम्

1.58.5
तपु᳚र्जम्भो॒ वन॒ आ वात᳚चोदितो यू॒थे न सा॒ह्वा{4} अव᳚ वाति॒ वंस᳚गः ।
अ॒भि॒व्रज॒न्नक्षि᳚तं॒ पाज᳚सा॒ रजः᳚ स्था॒तुश्च॒रथं᳚ भयते पत॒त्रिणः᳚ ॥
▶ पदपाठः (Word-by-word)
तपुः᳚॑जम्भः । वने᳚ । आ । वात᳚॑चोदितः । यू॒थे । न । सा॒ह्वान् । अव᳚ । वा॒ति॒ । वंस᳚गः ।
अ॒भि॒॑व्रज᳚न् । अक्षि᳚तम् । पाज᳚सा । रजः᳚ । स्था॒तुः । च॒रथ᳚म् । भ॒य॒ते॒ । प॒त॒त्रिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तपुर्जंभः । तपूंषि ज्वाला एव जंभा आयुधानि मुखानि वा यस्य स तथोक्तः । वातचोदितो वायुना प्रेरितः । एवंभूतोऽग्निर्यूथे ज्वलासमूहे सत्यक्षितमक्षीणं रज आर्द्रवृक्षांतर्गतमुदकं पाजसा तेजोबलेनाभिव्रजन् आभिमुख्येन गच्छन्वनेऽरण्ये स्वाह्वान् सर्वमभिभवन् आ आभिमुख्येनाव वाति व्याप्नोति । तत्र दृष्टांतः । वंसगो न । यथा वननीयगतिर्वृषो गोयूथे सर्वमभिभवन्वर्तते तद्वत् । यस्मादेवं तस्मात्पतत्रिणः पतनवतोऽग्नेः सकाशात्स्थातुः स्थावरं चरथं च जंगमं च भयते । बिभेति ॥ साह्वान् । दाश्वान्साह्वानिति क्वसुप्रत्ययांतो निपातितः । दीर्घादट समानपाद इति संहितायां नकारस्य रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः । यत्वलोपौ । ह्रस्वत्वं छांदसम् । स्थातुः । कमिमनिजनीत्यादिना (उ १-७३) विहितस्तुप्रत्ययो बहुलवचनात्तिष्ठतेरपि भवति । यद्वा । स्थातुरनंतरं चरथं भयते । प्रथमं स्थातृ स्थावरं बिभेति पश्चाच्चरथमित्यर्थः । चरथम् । चर गत्यर्थः । अस्मादौणादिकोऽथप्रत्ययः । भयते । ञिभी भये । व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति श्लोरभावः । गुणावादेशौ ॥ ५ ॥