श्रवणम्

1.126.4 समानपद
च॒त्वा॒रिं॒शद्दश᳚रथस्य॒ शोणा᳚ः स॒हस्र॒स्याग्रे॒ श्रेणिं᳚ नयन्ति ।
म॒द॒च्युतः᳚ कृश॒नाव᳚तो॒ अत्या᳚न्क॒क्षीव᳚न्त॒ उद᳚मृक्षन्त प॒ज्राः ॥
▶ पदपाठः (Word-by-word)
च॒त्वा॒रिं॒शत् । दश᳚॑रथस्य । शोणाः᳚ । स॒हस्र᳚स्य । अग्रे᳚ । श्रेणि᳚म् । न॒य॒न्ति॒ ।
म॒द॒॑च्युतः᳚ । कृ॒श॒न॑व᳚तः । अत्या᳚न् । क॒क्षीव᳚न्तः । उत् । अ॒मृ॒क्ष॒न्त॒ । प॒ज्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दशरथस्य दशसंख्याकरथवतः सहस्रस्य सहस्रसंख्याकानुचरोपेतस्य कक्षीवतोगोयूथसहस्रस्य- वाग्रेपुरस्तात् शोणाः शोणवर्णोपेताः अश्वाः चत्वारिंशत् एकैकस्यरथस्यचतुष्टयेसतिदशरथानां मिलित्वाचत्वारिंशदश्वाभवन्ति तेपिश्रेणिं पङ्क्तिं आश्रित्यनयन्ति रथानभिमतदेशंप्रापयन्ति युक्ता- श्वनियुक्तान्रथान् श्रेणिं श्रेणीभावंनयन्ति प्रापयन्ति एकैकंरथंचत्वारश्चत्वारः पंक्तयाकारेणवहन्ती- त्यर्थः अथतान् कक्षीवन्तः कक्ष्याशसंबंधिनीरज्जुः कक्ष्यारज्जुरश्वस्येतियास्केनोक्तत्वात् । ताभिस्त- द्वन्तः यद्वा अंगिरसः पुत्राः सर्वेपिकक्षीवन्तः अथवा कक्षीवदनुचराः सर्वेपि छत्रिन्यायेनकक्षीवन्तः पज्राघासाद्यन्नवन्तः सन्तोमदच्युतोमदस्राविणः उद्वृत्तान् शत्रूणांमदस्यच्यावयितॄन्वा कृशनावतः सुवर्णमंयनानाभरणयुक्तान् कृशनमितिहिरण्यनाम कृशनंलोहमितितन्नामसुपाठात् सुवर्णाभरणोपे- तान् अत्यान् सन्ततगमनशीलानश्वान् उदमृक्षन्त अध्वश्रमजनितस्वेदापनयनाय उत्कृष्टं मार्जयन्ति ॥ ४ ॥