श्रवणम्

1.101.2
यो व्यं᳚सं जाहृषा॒णेन᳚ म॒न्युना॒ यः शम्ब᳚रं॒ यो अह॒न्पिप्रु᳚मव्र॒तम् ।
इन्द्रो॒ यः शुष्ण᳚म॒शुषं॒ न्यावृ᳚णङ्म॒रुत्व᳚न्तं स॒ख्याय᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
यः । वि॑अं᳚सम् । ज॒हृ॒षा॒णेन᳚ । म॒न्युना᳚ । यः । शम्ब᳚रम् । यः । अह᳚न् । पिप्रु᳚म् । अ॒व्र॒तम् ।
इन्द्रः᳚ । यः । शुष्ण᳚म् । अ॒शुष᳚म् । नि । अवृ᳚णक् । म॒रुत्व᳚न्तम् । स॒ख्याय᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इंद्रो जहृषाणेन प्रवृद्थेन मन्युना क्रोधेन व्यंसं विगतभुजं वृत्रमहन् । अवधीत् । अपि च य इंद्रः शंबरमेतत्संज्ञमसुरं चावधीत् । तथाव्रतं व्रतस्य यागादेः कर्मणो विरोधिनं पिप्रुमेतत्संज्ञमसुरं च य इंद्रोऽवधीत् । किंच य इंद्रोऽशुषं शोषकरहितं शुष्णं सर्वस्य जगतः शोषकमेतत्संज्ञमसुरं न्यवृणक् । न्यवर्जयत् । समूलं हतवानित्यर्थः । तं मरुत्वॆंतमिंद्रं सख्यायाह्वायामहे ॥ व्यंसम् । विगतोऽंसो यस्मात् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यण उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरिहत्वम् । जहृषाणेन । हृष तुष्टौ । अत्र वृद्ध्यर्थः । छंदसि लिट् । लिटः कानज्वेति तस्य कानजादेशः । अन्येषामसि दृश्यत इति संहितायामभ्यासस्य दीर्घत्वम् । चित्त्वादंतोदात्तत्वम् । अशुषम् । शुष शोषणे । इगुपधलक्षणः कः । शुषाः शोषका न संत्यस्येत्यशुषः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । अवृणक् । वृजी वर्जने । रौधादिरः ॥ २ ॥