श्रवणम्

1.101.10
मा॒दय᳚स्व॒ हरि᳚भि॒र्ये त᳚ इन्द्र॒ वि ष्य᳚स्व॒ शिप्रे॒ वि सृ᳚जस्व॒ धेने᳚ ।
आ त्वा᳚ सुशिप्र॒ हर᳚यो वहन्तू॒शन्ह॒व्यानि॒ प्रति᳚ नो जुषस्व ॥
▶ पदपाठः (Word-by-word)
मा॒दय᳚स्व । हरि᳚॑भिः । ये । ते॒ । इ॒न्द्र॒ । वि । स्य॒स्व॒ । शिप्रे॒ इति᳚ । वि । सृ॒ज॒स्व॒ । धेने॒ इति᳚ ।
आ । त्वा॒ । सु॒॑शि॒प्र॒ । हर᳚यः । व॒ह॒न्तु॒ । उ॒शन् । ह॒व्यानि᳚ । प्रति᳚ । नः॒ । जु॒ष॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र हरिभिरश्वैः सह मादयस्वः । तृप्तो भव । ये ते तव स्वभूतातदर्थं शिप्रे हनू संहते वि ष्यस्व । सोमपानार्थं विवृते कुरु । तथा धेने पानसाधनभूते जिह्वोपजिह्विके वि सृजस्व । सोमपानार्थं विश्लिष्टे कुरु । हे सुश्रिप्र । शिप्रे हनू नासिके वा । शोभनशिप्रेंद्र त्वा त्वां हरयोऽश्वा आ वहंतु । अस्मिदीयं यज्ञं प्रापयंतु । त्वं चोशन् अस्मान्कामयमानो नोऽस्माकं हव्यानि हवींषि प्रतिजुषस्व । प्रत्येकं सेवस्व । मोदासिष्ठाः ॥ वि ष्यस्व । षो अंतकर्मणि व्यत्ययेनात्मनेपदम् । दिवादित्वात् श्यन् । ओतः श्यनि (पा ७-३-७१) इत्योकारलोपः । उपसर्गात्सुनोतीति षत्वं ॥ १० ॥