श्रवणम्

1.101.6
यः शूरे᳚भि॒र्हव्यो॒ यश्च᳚ भी॒रुभि॒र्यो धाव᳚द्भिर्हू॒यते॒ यश्च᳚ जि॒ग्युभि᳚ः ।
इन्द्रं॒ यं विश्वा॒ भुव᳚ना॒भि सं᳚द॒धुर्म॒रुत्व᳚न्तं स॒ख्याय᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
यः । शूरे᳚भिः । हव्यः᳚ । यः । च॒ । भी॒रु॑भिः᳚ । यः । धाव᳚त्॑भिः । हू॒यते᳚ । यः । च॒ । जि॒ग्युभिः᳚ ।
इन्द्र᳚म् । यम् । विश्वा᳚ । भुव᳚ना । अ॒भि । स॒म्॑द॒धुः । म॒रुत्व᳚न्तम् । स॒ख्याय᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इंद्रः शूरेभिः शौर्योपेतैः पुरुषैर्हव्यो योद्धुमाह्वातव्यः । यश्च भीरुभिर्भयशीलैः कातरैः पुरुषैः सहायार्थमाह्वातव्यः । अपि च य इंद्रो धावद्भिः पराजयेन पलायमानैर्हूयते रक्षार्थमाहूयते । यश्च जिग्युभिः प्राप्तजयैराहूयते । यं चेंद्रं विश्वा भुवना सर्वाणि भूतजातानि स्वेषु स्वेषु कार्येष्वभि संदधुः । आभिमुख्येन स्थापयंति । तं मरुत्वंतमिंद्रं सख्यायाह्वयामहे ॥ शूरेभिः । बहुलं छंदसीति भिस ऐसभावः । हव्यः । ह्वयतेरचो यदिति यत् । ह्व इत्यनुवृत्तौ बहुलं छंदसीति संप्रसारणम् । गुणे धातोस्तन्नि मित्तस्यृवेत्यवादेशः । भीरुभिः । भियः क्रुक्रुकनौ (उ २-३१) इति क्रुप्रत्ययः । धावद्भिः । सृ गतौ । सर्तेर्वेगितायां शपि पाघ्रेत्यादिना धावादेशः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । जिग्युभिः । जि जये । लिटः क्वसुः । द्विर्वचने सन्लिटोर्जेरित्यभ्यासादुत्तरस्य जकारस्य कुत्वम् । भिस्ययस्मयादित्वेन भत्वाद्वसोः संप्रसारणमिति संप्रसारणम् । छांदसोऽंत्यलोपः ॥ ६ ॥