इन्द्रं᳚ मनी॒षा अ॒भ्य᳚र्चति श्रु॒तं म॒रुत्व᳚न्तं स॒ख्याय᳚ हवामहे ॥
पदपाठः (Word-by-word)
इन्द्र᳚म् । म॒नी॒षा । अ॒भि । अ॒र्च॒ति॒ । श्रु॒तम् । म॒रुत्व᳚न्तम् । स॒ख्याय᳚ । ह॒वा॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
विचक्षणः सूर्यात्मना प्रकाशमान इंद्रो रुद्राणां रुद्रपुत्रामध्यात्मं प्राणरूपेण वर्तमानानां मरुताम् । यद्वा । रोदयितृणां प्राणानाम् । प्राणा हि शरीरान्निर्गताः संतो बंधुजनान्रोदयंति । प्रदिशा प्रदेशनेन मनुष्येभ्यः प्रदानेन सहैति । अंतरिक्षे गच्छति । तथा चाम्नायते । योऽसौ तपन्नुदेति । स सर्वेषां भूतानां प्राणानादायोदेति । तै आ १-१४-१ । इति । अपि च रुद्रेभिरधिभूतं वर्तमानै रुद्रपुत्रैर्मरुद्भिर्योषा माध्यमिका वाक् पृथु विस्तीर्णं ज्रयो वेगं तनुते । विस्तारयति । प्रसंगादत्र मरुतां स्तुतिः । तैर्मरुद्भिः सह वर्तमानं श्रुतं प्रख्यातं सूर्यात्मानमिंद्रं मनीषा स्तुतिलक्षणा वाक् अभ्यर्चति । अभिमुख्येन स्तौति । तं मरुत्वंतमिंद्रं सख्यायाह्वयामहे ॥ प्रदिशा । दिश अतिसर्जने । संपदादिलक्षणो भावे क्विप् । ज्रयः । जि ज्रि अभिभवे । ज्रीयतेऽभिभूयतेऽनेनेति ज्रयो वेगः । करणेऽसुन् । मनीषा । ईषाअक्षादित्वात्प्रकृतिभावः ॥ ७ ॥