श्रवणम्

1.101.5
यो विश्व᳚स्य॒ जग᳚तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे᳚ प्रथ॒मो गा अवि᳚न्दत् ।
इन्द्रो॒ यो दस्यू{4}॒रध᳚रा{4} अ॒वाति᳚रन्म॒रुत्व᳚न्तं स॒ख्याय᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
यः । विश्व᳚स्य । जग᳚तः । प्रा॒ण॒तः । पतिः᳚ । यः । ब्र॒ह्मणे᳚ । प्र॒थ॒मः । गाः । अवि᳚न्दत् ।
इन्द्रः᳚ । यः । दस्यू᳚न् । अध᳚रान् । अ॒व॒॑अति᳚रत् । म॒रुत्व᳚न्तम् । स॒ख्याय᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इंद्रो विश्वस्य जगतो गच्छतः प्राणतः प्रश्वसतः प्राणिजातस्य पतिः स्वामी यश्च ब्रह्मणे ब्राह्मणजातिभ्योऽंगिरोभ्यः प्रथमोऽन्येभ्यो देवेभ्यः पूर्वभावी सन् पणिभिरपहृता गा अविंदत् । अलभत । अन्येभ्यो देवेभ्यः पूर्वमेव तैरसुरैर्युद्ध्वा गाः स्वयमलभतेत्यर्थः । अपि च य इंद्रो दस्यूनुपक्षपयित ॄनसुरनधरान्निकृष्टान्कृत्वावातिरत् अवधीत् । अवतिरतिर्वधकर्मा । तं मरुत्वंतमिंद्र सख्यायाह्वयामहे ॥ जगतः । गम्लृ सृप्लृ गतौ । वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च (उ २-८४) इत्यतिप्रत्ययांतो निपातितो जगच्छब्द आद्युदात्तः । प्राणतः । श्वस प्राणने अन च । अस्माल्लटः शतृ । अदादित्वाच्छपो लुक् । शतुरनुम इति विभक्तेरुदात्तत्वम् । षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वं ॥ ५ ॥