श्रवणम्

1.116.15
च॒रित्रं॒ हि वेरि॒वाच्छे᳚दि प॒र्णमा॒जा खे॒लस्य॒ परि᳚तक्म्यायाम् ।
स॒द्यो जङ्घा॒माय᳚सीं वि॒श्पला᳚यै॒ धने᳚ हि॒ते सर्त᳚वे॒ प्रत्य᳚धत्तम् ॥
▶ पदपाठः (Word-by-word)
च॒रित्र᳚म् । हि । वेः॑इ᳚व । अच्छे᳚दि । प॒र्णम् । आ॒जा । खे॒लस्य᳚ । परि᳚॑तक्म्यायाम् ।
स॒द्यः । जङ्घा᳚म् । आय᳚सीम् । वि॒श्पला᳚यै । धने᳚ । हि॒ते । सर्त᳚वे । प्रति᳚ । अ॒ध॒त्त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अगस्त्यपुरोहितः खेलो नाम राजा । तस्य संबंधिनी विश्पला नाम स्त्री संग्रामे शत्रुभिश्छिन्नपादासीत् । पुरोहितेनागस्त्येन स्तुतावश्विनौ रात्रावागत्यायोमयं पादं समधत्ताम् । तदेतदाह । आजा आजौ संग्रामेऽगस्त्य पुरोहितस्य खेलस्य संबंधिन्या विश्पलाख्यायाश्चरित्रं चरणं वेरिव वेः पक्षिणः पर्णं पतत्रमिवाच्छेदि हि । पुरा छिन्नमभूत्खलु । हे अश्विनौ युवामगस्त्येन स्तुतौ संतौ परितक्म्यायाम् । परितक्म्या रात्रिः परित एनां तकतीति यास्कः । नि ११-२५ । एनामुभयतः सूर्यो गच्छतीति तस्यार्थः । रात्रावागत्य सद्यस्तदानीमेव हिते शत्रुषु निहिते धने जेतव्ये विषयभूते सति सर्तवे सर्तुं गंतुं विश्पलाया आयसीमयोमयीं जंघां जंघोपलक्षितं पादं प्रत्यधत्तम् । संधानमेकीकरणं कृत । वंतावित्यर्थः ॥ चरित्रम् । अर्तिलूधूसूखनसहचर इत्र इति करण इत्रः । आजा । सुपां सुलुगिति विभक्तेर्डादेशः । आयसीम् । अयःशब्दाद्विकारार्थे प्राणिरजतादिभ्योऽञ् पा ४-३-१५४ । टड्ढाणञिति ङीप् ॥ १५ ॥