श्रवणम्

1.116.9
परा᳚व॒तं ना᳚सत्यानुदेथामु॒च्चाबु᳚ध्नं चक्रथुर्जि॒ह्मबा᳚रम् ।
क्षर॒न्नापो॒ न पा॒यना᳚य रा॒ये स॒हस्रा᳚य॒ तृष्य᳚ते॒ गोत᳚मस्य ॥
▶ पदपाठः (Word-by-word)
परा᳚ । अ॒व॒तम् । ना॒स॒त्या॒ । अ॒नु॒दे॒था॒म् । उ॒च्चा॑बु᳚ध्नम् । च॒क्र॒थुः॒ । जि॒ह्म॑बा᳚रम् ।
क्षर᳚न् । आपः᳚ । न । पा॒यना᳚य । रा॒ये । स॒हस्रा᳚य । तृष्य᳚ते । गोत᳚मस्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रेदमाख्यानम् । कदाचिन्मरुभूमौ वर्तमानस्य स्तोतुर्गोतमस्य ऋषेः समीपं देशांतरे वर्तमानं कूपमुत्खायाश्विनौ प्रापयेताम् । प्रापय्य च तं कूपं स्नानपानादिसौकर्यायोपरिमूलमधोबिलमवास्थापयतामिति । तदेतदाह । हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ नासिकाप्रभवौ वा । एतत्संज्ञावश्विनौ युवामवतम् । कूपनामैतत् । अवस्तात्ततं कूपं परानुदेथाम् । गोतमस्य ऋषेः समीपे प्रैरिषाथाम् । तदनंतरं तं कूपमुच्चा बुध्नम् । उच्चैरुपरिष्ठाद्बुद्नो मूलं यस्य स तथोक्तः । जिह्मबारम् । जिह्ममधस्ताद्वर्तमानतया वक्रं बारं द्वारं यस्य स तथोक्तः । एवंगुणविशिष्टं चक्रथुः । युवामकृषाथां तस्मात्कूपात्तृष्यते । पिपासतो गोतमस्य पायनाय पानार्थमापो न आपश्च । अयं नशब्दश्चार्थे । क्षरन् । प्रवाहरूपेण निरगमन् । कीदृशस्य । राये । हवींषि दत्तवतः । सहस्राय सहनशीलाय । यद्वा । सहस्रसंख्याकाय । राये धनाय एतत्संख्याधनलाभार्थं चाक्षरन् ॥ अनुदेथाम् । णुद प्रेरणे । तौदादिक । जिह्मबारम् । द्वारशब्दस्य पृषोदरादित्वाद्बारादेशः । क्षरन् । क्षर संचलने । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । शपः पित्त्वादनुदात्तत्वम् । तिङो लसार्वधातुकस्वरेण धातुस्वरः । पायनाय । हेतुमति णिच् । शाछासाह्वेति युक् । भावे ल्युट् । राये । रा दाने । राति ददातीति राः । रातेर्डैः (उ २-६६) ऊडिदमिति विभक्तेरुदात्तत्वम् । तृष्यते । ञितृषा पिपासायाम् । श्यन् । लटः शतृ । श्यनो नित्त्वादाद्युदात्तत्वम् । षष्ठ्यर्थे चतुर्थी वक्तव्या । पा २-३-६२-१ । इति चतुर्थी ॥ ९ ॥