श्रवणम्

1.116.19
र॒यिं सु᳚क्ष॒त्रं स्व᳚प॒त्यमायु᳚ः सु॒वीर्यं᳚ नासत्या॒ वह᳚न्ता ।
आ ज॒ह्नावीं॒ सम᳚न॒सोप॒ वाजै॒स्त्रिरह्नो᳚ भा॒गं दध᳚तीमयातम् ॥
▶ पदपाठः (Word-by-word)
र॒यिम् । सु॒॑क्ष॒त्रम् । सु॒॑अ॒प॒त्यम् । आयुः᳚ । सु॒॑वीर्य᳚म् । ना॒स॒त्या॒ । वह᳚न्ता ।
आ । ज॒ह्नावी᳚म् । स॑म᳚नसा । उप᳚ । वाजैः᳚ । त्रिः । अह्नः᳚ । भा॒गम् । दध᳚तीम् । अ॒या॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्यावश्विनौ सुक्षत्रं शोभनबलं रयिं धनं स्वपत्यं शोभनैः पुत्रादिभिरुपेतं सुवीर्यं शोभनविर्योपेतमायुः । अन्ननामैतत् । एवंगुणविशिष्टमन्नं च वहंता धारयंतौ युवां समनसा समानमनस्कौ संतौ जह्नावीं जह्नोर्महर्षेः संबंधिनीं प्रजामायातं ॥ अभिमुख्येनागच्छतम् । कीदृशीम् । वाजैर्हविर्लक्षणैरन्नैरुपेतां अह्नः । अत्राहःशबेन तत्रानुष्ठेयः सोमयागो लक्ष्यते । तस्य प्रातःसवनादिरूपेण त्रिस्त्रिधा विभक्तं भागमंतं दधतीं बिभ्रतीम् । अनुसवनं हविर्भिर्यजमानामित्यर्थः ॥ सुक्षत्रम् । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सुवीर्यम् । वीरवीर्यौ चेति बहुव्रीहावुत्तरपदाद्युदात्तत्वम् । जह्नावीम् । जह्नुशब्दात्तस्येदमित्यर्थेऽण् । टड्ढाणञिति ङीप् । जाह्नवीह्रस्वदीर्घयोर्विनिमयः पृषोदरादित्वात् । उक्तं च । वर्णागमो वर्णविपर्ययश्च । का ६-३-१०९ । इति अत एव मध्योदात्तत्वं ॥ १९ ॥