रे॒वदु᳚वाह सच॒नो रथो᳚ वां वृष॒भश्च᳚ शिंशु॒मार᳚श्च यु॒क्ता ॥
पदपाठः (Word-by-word)
रे॒वत् । उ॒वा॒ह॒ । स॒च॒नः । रथः᳚ । वा॒म् । वृ॒ष॒भः । च॒ । शिं॒शु॒मारः᳚ । च॒ । यु॒क्ता ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ हयंता स्तुतिभिराहूयमानौ युवां भरद्वाजाय संभ्रियमाणहविर्लक्षणान्नाय यजमानाय दिवोदासायैतत्संज्ञाय राजर्षयेऽभीष्टं फलं दातुं वर्तिस्तदीयं गृहं यद्यदायातं अगच्छतं तदानीं रेवद्धनयुक्तमन्नं वां युवयोः सचनः सेवनो रथ उवाह । तस्मै दिवोदासाय प्रापयामास । अपि च तस्मिन्रथे वृषभोऽनड्वान् शिंशुमारो ग्राहश्च परस्परविरुद्धावपि स्वसामर्थ्यप्रकटनाय युक्ता । वाहनतया संयुक्तावास्तां ॥ दिवोदासाय । दिवश्च दासे षष्ठ्या अलुग्वक्तव्यः । का ६-३ २१-५ । इत्यलुक् । दिवोदासादीनां छंदस्युपसंख्यानमिति पूर्वपदाद्युदात्तत्वम् । हयंता । ह्वेञः कर्मणि लटो व्यत्ययेन शतृ । बहुलं छंदसीति संप्रसारणम् । शपि गुणे छांदसोऽयादेशः । रेवत् । रयिशब्दान्मतुप् । रयेर्मतौ बहुलमिति संप्रसारणम् । छंदसीर इति मतुपो वत्वम् । रयिशब्दाच्च । का ६-१-१७६-१ । इति मतुप उदात्तत्वम् । सचनः । षच सेवने । अनुदात्तेतश्च हलादेरिति युच् । युक्ता । सुपां सुलुगिति विभक्तेराकारः ॥ १८ ॥