अ॒व॒स्य॒ते स्तु᳚व॒ते कृ᳚ष्णि॒याय᳚ ऋजूय॒ते ना᳚सत्या॒ शची᳚भिः ।
प॒शुं न न॒ष्टमि᳚व॒ दर्श᳚नाय विष्णा॒प्वं᳚ ददथु॒र्विश्व᳚काय ॥
प॒शुं न न॒ष्टमि᳚व॒ दर्श᳚नाय विष्णा॒प्वं᳚ ददथु॒र्विश्व᳚काय ॥
पदपाठः (Word-by-word)
अ॒व॒स्य॒ते । स्तु॒व॒ते । कृ॒ष्णि॒याय᳚ । ऋ॒जु॒॑य॒ते । ना॒स॒त्या॒ । शची᳚भिः ।
प॒शुम् । न । न॒ष्टम्॑इ᳚व । दर्श᳚नाय । वि॒ष्णा॒प्व᳚म् । द॒द॒थुः॒ । विश्व᳚काय ॥
प॒शुम् । न । न॒ष्टम्॑इ᳚व । दर्श᳚नाय । वि॒ष्णा॒प्व᳚म् । द॒द॒थुः॒ । विश्व᳚काय ॥
सायणभाष्यम् (Sayana Commentary)
अवस्यतेऽवनं रक्षणमात्मन इच्छते स्तुवते स्तुतिं कुर्वते कृष्णियाय । कृष्णो नाम कश्चित् । तस्य पुत्राय ऋजूयत आर्जवमिच्छते विश्वकायेत्स्मंज्ञाय ऋषये हे नासत्यौ युवां शचीभिरात्मीयैः कर्मभिर्विष्णाप्वं नाम विनष्टं पुत्रं दर्शनाय दर्शनार्थं ददथुः । दत्तवंतौ । तत्र दृष्टांतः । पशुं न नष्टमिव । एक उपमार्थीयः पूरकः । यथा कश्चिद्विनष्टं पशुं स्वामिनो दृष्टिपथं प्रापयति तद्वत् ॥ आवस्यते । अवस् शब्दात्सुप आत्मनः क्यच् । शतुरनुम इति विभक्तेरुदात्तत्वम् । कृष्णियाय । कृष्णशब्दादपत्यार्थे छांदसो घञ् ॥ २३ ॥