श॒यवे᳚ चिन्नासत्या॒ शची᳚भि॒र्जसु᳚रये स्त॒र्यं᳚ पिप्यथु॒र्गाम् ॥
पदपाठः (Word-by-word)
श॒यवे᳚ । चि॒त् । ना॒स॒त्या॒ । शची᳚भिः । जसु᳚रये । स्त॒र्य᳚म् । पि॒प्य॒थुः॒ । गाम् ॥
सायणभाष्यम् (Sayana Commentary)
अर्चत्कस्य ऋचत्कपुत्रस्य शरस्मैतत्संज्ञस्यापि स्तोतुः पिपासितस्य पातवे पानार्थं नीचान्नीचीनादवतात्कूपादुच्चा उच्च्वॆरुपरिष्ठाद्वारुदकं हे अश्विनौ युवामा चक्रथुः । आभिमुख्येन कृतवंतौ । तथा हे नासत्यावश्विनौ शचीभिर्युष्मदीयैः कर्मभिः परिचरणैर्जसुरये श्रांताय शयवे चित् शयुनाम्न ऋषये स्तर्यं निवृत्तप्रसवां गामग्नि होत्रार्थस्य पयसो दोग्ध्रिं पिप्युथुः । पयसा युवामापूरितवंतौ ॥ पातवे । पा पाने । तुमर्थेसेसेनिति तवेन्प्रत्ययः । जसुरये । जसु हिंसायाम् । जसिसहोरुरिन् (उ २-७३) स्तर्यम् । स्तीर्यत आच्छाद्यते प्रसवसामर्थ्याभावेनेति स्तरीः । अवितॄस्तृतंत्रिभ्य ईः (उ ३-१५८) इतीकारप्रत्ययः । वा छंदसीत्यमि पूर्वत्वस्य विकल्पितत्वादभावे यणादेशः । उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । पिप्यथुः । प्यायी वृद्धौ । लिट व्यत्ययेन परस्मैपदम् । लिङ्यङोश्च (पा ६-१-२९) इति पीभावः ॥ २२ ॥