श्रवणम्

1.187.5
तव॒ त्ये पि᳚तो॒ दद᳚त॒स्तव᳚ स्वादिष्ठ॒ ते पि᳚तो ।
प्र स्वा॒द्मानो॒ रसा᳚नां तुवि॒ग्रीवा᳚ इवेरते ॥
▶ पदपाठः (Word-by-word)
तव᳚ । त्ये । पि॒तो॒ इति᳚ । दद᳚तः । तव᳚ । स्वा॒दि॒ष्ठ॒ । ते । पि॒तो॒ इति᳚ ।
प्र । स्वा॒द्मानः᳚ । रसा᳚नाम् । तु॒वि॒ग्रीवाः᳚॑इव । ई॒र॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपितो पालकान्न त्येतेत्वदर्थिनोनरास्तवभोक्तारोभवन्तीतिशॆषः केतेनराः हेस्वादिष्ठस्वादुतम पितोपालक तवत्वदनुग्रहात् तेत्वांददतः प्रयच्छन्तोभवन्ति यद्वातेपितोइत्यादरार्थं अभ्यासेहिभूयां समर्थंमन्यन्ते किञ्च तवरसानां स्वाद्वम्लादीनांषण्णांस्वाद्मानः स्वादयितारोभक्षयितारएवतुविग्री- वाइव तुवीतिबहुनाम प्रवृद्धग्रीवाएवप्रेरतेप्रकर्षेणगच्छन्ति संचरन्ति इवशब्दएवकारार्थः पूरणोवा भूलोकेअत्तारएवदृढाङ्गाभवन्तीतिप्रसिद्धं अनशनेहिग्रीवाअधोलंबते यद्वा तवरसानामत्तारः असं- ख्यातग्रीवाइवभवन्ति रसानांबाहुल्यादितिभावः एवंबहुरसोपेतमन्नमितितस्यस्तुतिः ॥ ५ ॥