तासां᳚ ज॒रां प्र᳚मु॒ञ्चन्ने᳚ति॒ नान᳚द॒दसुं॒ परं᳚ ज॒नय᳚ञ्जी॒वमस्तृ᳚तम् ॥
पदपाठः (Word-by-word)
तासा᳚म् । ज॒राम् । प्र᳚॑मु॒ञ्चन् । ए॒ति॒ । नान᳚दत् । असु᳚म् । पर᳚म् । ज॒नय᳚न् । जी॒वम् । अस्तृ᳚तम् ॥
सायणभाष्यम् (Sayana Commentary)
तमग्निंअग्रुवः अग्रतः स्थिताः यद्वा अङ्गुलिनामैतत् अंगुलयइवाकुटिलाः केशिनीः केशस्थानीयो- र्ध्वभाविकाष्णर्योपेताज्वालाः संरेभिरेहि परिरंभंकुर्वन्तिखलु आलिंगन्ति किंच एवंकुर्वत्यः मम्रुषीः मृताः अंगारभावमापन्नाअपि म्रियतेः क्वसुप्रत्ययान्तात् ङीपिरूपं आयवे आगच्छते अग्नये भर्त्रे पुनः स्वोपद्रवमजानत्यः ऊर्ध्वाः प्रतस्थुः ऊर्ध्वमुखाः उन्नताः प्रतस्थिरे मृतप्रायाअपि प्रत्युत्थानं कृतवत्य- इत्यर्थः एवंकृतवतीषु सतीषु सभर्ताग्निः तासां ज्वालानांजरांवयोहानिंप्रमुंचन् प्रकर्षेणमोचयन् ना- नदत् जरापरिहारायमन्त्रयन्निवात्यर्थं शब्दयन् नकेवलं जराहानिरेव अपितु परंनिरतिशयं असुं प्रा- णं अस्तृतं काष्ठोदकादिप्रक्षेपेणाप्यहिंसितं जीवं प्राणधारणसामर्थ्यं जनयतुन्पादयन्नेति गच्छति ता- सांज्वालानां सन्निधिं प्राप्नोति यथालोकेकाश्चन रमण्योरमणेनसहनिर्भरंक्रीडित्वापश्चात्प्रोषितेत- स्मिन्विरहेणजीर्णाम्रियमाणाः पश्चात्तस्मिन्नागतेसति स्वदौर्बल्यमगणयित्वा संतोषेणपरिष्वंगाय- चेष्टन्ते सभर्ता मन्त्रोच्चारणेनजरामपनीयोचितप्रदानेन प्राणयन्रक्षतीत्ययंभावोऽत्रानुसंधेयः ॥ ८ ॥