श्रवणम्

1.140.5 समानपद
आद᳚स्य॒ ते ध्व॒सय᳚न्तो॒ वृथे᳚रते कृ॒ष्णमभ्वं॒ महि॒ वर्प॒ः करि᳚क्रतः ।
यत्सीं᳚ म॒हीम॒वनिं॒ प्राभि मर्मृ᳚शदभिश्व॒सन्त्स्त॒नय॒न्नेति॒ नान᳚दत् ॥
▶ पदपाठः (Word-by-word)
आत् । अ॒स्य॒ । ते । ध्व॒सय᳚न्तः । वृथा᳚ । ई॒र॒ते॒ । कृ॒ष्णम् । अभ्व᳚म् । महि᳚ । वर्पः᳚ । करि᳚क्रतः ।
यत् । सी॒म् । म॒हीम् । अ॒वनि᳚म् । प्र । अ॒भि । मर्मृ᳚शत् । अ॒भि॒॑श्व॒सन् । स्त॒नयन् । एति᳚ । नान᳚दत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदनन्तरं अस्यस्तूयमानस्याग्नेस्तेप्रसिद्धाः विस्फुलिंगाः वृथासहैवईरते सर्वतोगच्छन्ति कीदृशा- स्तेध्वसयन्तः तमांसिध्वसयन्तः तथाकृष्णंकृष्णवर्णं अभ्वंमहान्तं अभिभवद्गमनमार्गं महिमहत् वर्पः रूपं प्रकाशंकरिक्रतः अत्यर्थंकुर्वन्तः कस्मिन्कालइतितदुच्यते—यत् यदामहीं महतीं अवनिंभूमिंसीं- सर्वतोमर्मृशत् पुनःपुनरमृशत् मृशेर्यङ्लुगन्ताच्छतरि अभ्यस्तानामादिरित्याद्युदात्तत्वं अभिश्वसन् सर्वतश्चेष्टमानः स्तनयन् शब्दंकुर्वन् नानदत् अत्यर्थंशाब्दयत् पूर्ववत्प्रत्ययस्वरौअभिप्र अभितः प्रक- र्षेणैतिगच्छति यदा इतस्ततोजिह्वाभिर्लेलिहानोभुगुभुगुध्वनिंकुर्वन् ज्वलति तदैवविस्फुलिंगाउद्भ- वन्तीत्यर्त्यः ॥ ५ ॥