श्रवणम्

1.140.3
कृ॒ष्ण॒प्रुतौ᳚ वेवि॒जे अ᳚स्य स॒क्षिता᳚ उ॒भा त᳚रेते अ॒भि मा॒तरा॒ शिशु᳚म् ।
प्रा॒चाजि᳚ह्वं ध्व॒सय᳚न्तं तृषु॒च्युत॒मा साच्यं॒ कुप᳚यं॒ वर्ध᳚नं पि॒तुः ॥
▶ पदपाठः (Word-by-word)
कृ॒ष्ण॒॑प्रुतौ᳚ । वे॒वि॒जे इति᳚ । अ॒स्य॒ । स॒॑क्षितौ᳚ । उ॒भा । त॒रे॒ते॒ इति᳚ । अ॒भि । मा॒तरा᳚ । शिशु᳚म् ।
प्रा॒चा॑जि᳚ह्वम् । ध्व॒सय᳚न्तम् । तृ॒षु॒॑च्युत᳚म् । आ । साच्य᳚म् । कुप᳚यम् । वर्ध᳚नम् । पि॒तुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याग्नेः मातरा मातृस्थानीये उत्पादयित्र्यौ उभा उभे अरण्याख्येमातरौ वेविजेचलतः ओवि- जीभयचलनयोः अस्माद्यङ्लुगन्ताव्द्यत्ययेनात्मनेपदं एकवचनंच लोपस्तआत्मनेपदेष्वितितलोपः चादिलोपेविभाषेतिनिघाताभावः कीदृशेमातरौ मथनोपक्रमेकृष्णप्रुतौ अग्निसंपर्कात्कृष्णवर्णतांप्रा- प्नुवत्यौ प्रापयन्त्यौवाभूमिं तथासक्षितौ समानकार्यमग्न्युत्पादनंगच्छन्त्यौ एवंभूतेमातरौ शिशुं शि- शुवदुत्पत्तिसमये अत्यल्पमग्निं अभितरेते आभिमुख्येनप्राप्नुतश्च कीदृशंशिशुं प्राचाजिह्वं प्राग्देशस्थि- तजिह्वास्थानीयज्वालं ध्वसयन्तं तमोनाशयन्तं तृषुच्युतं अरणीभ्यां क्षिप्रंनिर्गच्छन्तंअक्लेशेनयोनेः सकाशाच्छीघ्रमुत्पद्यमानं आईषत् साच्यं समवेतव्यं अरणीभ्यां क्षिप्रंनिर्गच्छन्तंअक्लेशेनयोनेःसका- शाच्छीघ्रमुत्पद्यमानं आईषत् साच्यं समवेतव्यं मृदुकाष्ठचूर्णादिना कुपयंगोपनीयं पितुःपालकस्य यजमानस्य वर्धनं प्रवर्धनं प्रवर्धयितारं उक्तप्रकारैर्लौकिकशिशुसाधारणैरुपेतंशिशुमग्निं मातरावुत्पा- दयतइत्यर्थः ॥ ३ ॥