अ॒धी॒वा॒सं परि᳚ मा॒तू रि॒हन्नह᳚ तुवि॒ग्रेभि॒ः सत्व᳚भिर्याति॒ वि ज्रयः᳚ ।
वयो॒ दध᳚त्प॒द्वते॒ रेरि᳚ह॒त्सदानु॒ श्येनी᳚ सचते वर्त॒नीरह᳚ ॥
वयो॒ दध᳚त्प॒द्वते॒ रेरि᳚ह॒त्सदानु॒ श्येनी᳚ सचते वर्त॒नीरह᳚ ॥
पदपाठः (Word-by-word)
अ॒धी॒वा॒सम् । परि᳚ । मा॒तुः । रि॒हन् । अह᳚ । तु॒वि॒॑ग्रेभिः᳚ । सत्व᳚॑भिः । या॒ति॒ । वि । ज्रयः᳚ ।
वयः᳚ । दध᳚त् । प॒त्॑वते᳚ । रेरि᳚हत् । सदा᳚ । अनु᳚ । श्येनी᳚ । स॒च॒ते॒ । व॒र्त॒निः । अह᳚ ॥
वयः᳚ । दध᳚त् । प॒त्॑वते᳚ । रेरि᳚हत् । सदा᳚ । अनु᳚ । श्येनी᳚ । स॒च॒ते॒ । व॒र्त॒निः । अह᳚ ॥
सायणभाष्यम् (Sayana Commentary)
दावाग्निःस्तूयते अयमग्निः मातुः भूतानांनिर्मातुर्भूमेः अधीवासंउपर्याच्छादनस्थानीयँ तृणगुल्मो- षध्यादिकंपरिपरितः रिहन् लिहन् अहेतिप्रसिद्धौ यद्वा मातुर्भूमेः अधीवासंउपरिधार्यमाणंवस्त्रं परि परितः रिहन् संपादयन् तुविग्रेभिः प्रभूतंशब्दयद्भिः प्रभूतगमनैर्वासत्वभिः प्राणिभिः सहितः ज्रयः ज्रयसा जवेनवियाति विविधंगच्छति किंच पद्वते पादवते द्विपदेचतुष्पदेच वयः अन्नं तत्तदुचितं दधत् ददत् विवनेदावानलेभीत्या पलायमानान्प्राणिनोव्याघ्रादयोभक्षयन्तीतिप्रसिद्धं किंकुर्वन् सदा सर्वदा तृणादिकं रेरिहत् दहन् किंच श्येनी श्यामवर्णोवर्तनिः मार्गः वियान्तंअग्निंअनु अनुक्रमेणसच- ते सेवतेयत्रयत्राग्निर्गच्छति तत्रतत्रमार्गोऽपिकृष्णोभवति अहेतिप्रसिद्धौ ॥ ९ ॥