श्रवणम्

1.140.6
भूष॒न्न यो॑धि᳚ ब॒भ्रूषु॒ नम्न᳚ते॒ वृषे᳚व॒ पत्नी᳚र॒भ्ये᳚ति॒ रोरु᳚वत् ।
ओ॒जा॒यमा᳚नस्त॒न्व᳚श्च शुम्भते भी॒मो न शृङ्गा᳚ दविधाव दु॒र्गृभि᳚ः ॥
▶ पदपाठः (Word-by-word)
भूष᳚न् । न । यः । अधि᳚ । ब॒भ्रूषु᳚ । नम्न᳚ते । वृषा᳚॑इव । पत्नीः᳚ । अ॒भि । ए॒ति॒ । रोरु᳚वत् ।
ओ॒जा॒यमा᳚नः । त॒न्वः᳚ । च॒ । शु॒म्भ॒ते॒ । भी॒मः । न । शृङ्गा᳚ । द॒वि॒धा॒व॒ । दुः॒॑गृभिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽग्निर्बभ्रूषुबभ्रुवर्णास्वोषधीषुभरणकुशलासुवाजगतांअधि अधिकंनम्नते नमति काष्ठानिप्रविश- ति नमतेर्लेट्यडागमः व्यत्ययेनश्चा यद्वा लङिछान्दसःशपःश्लुः व्यत्ययेनहलादिशेषाभावः भूषन् न- भूतान्येवस्वतेजसाभूषयन्निव किंच अयंप्रविशन् वृषेवसेक्तावृषभइवपत्नीः तमेवपालयित्रीः समर्ध- यित्रीरोषधीः रोरुवत् रौतेर्यङ्लुगन्ताच्छतरिअभ्यस्तानामादिरित्याद्युदात्तत्वं अत्यर्थंशब्दयन्नभ्येति अभितोगच्छति प्रथममोषधीःप्रविश्यपश्चात्प्रबुद्धःसन् तानेवदहतीत्यर्थःकिंच एवंकृत्वा ओजायमानः ओजइतिबलनाम स्वयंबलमिवाचरन् कर्तुःक्यङ्सलोपश्चेतिक्यङ्सलोपौ धूमादिभिर्विनाकेवलंतेजो- रूपएवसन् तन्वश्चशुंभते स्वशरीरभूताज्वालाअपि दीपयति पोषयतीत्यर्थः किंच प्रवृद्धज्वालः दुर्गृ- भिः केनचिदपिगृहीतुमशक्यःसन् भीमोन भयंकरोमृगइव सयथादुर्ग्रहःसन् श्रृंगंचालयति तद्वत् अय- मपि श्रृंगाणि श्रृंगवदुन्नताज्वालादविधावअत्यर्थंचालयति धुनोतेर्यङ्लुगन्ताल्लिटिरूपं अस्यचदाध- र्त्यादावितिशब्देन संग्रहोद्रष्टव्यः ॥ ६ ॥