इ॒दम᳚ग्ने॒ सुधि᳚तं॒ दुर्धि᳚ता॒दधि᳚ प्रि॒यादु᳚ चि॒न्मन्म᳚न॒ः प्रेयो᳚ अस्तु ते ।
यत्ते᳚ शु॒क्रं त॒न्वो॒३॒᳚ रोच᳚ते॒ शुचि॒ तेना॒स्मभ्यं᳚ वनसे॒ रत्न॒मा त्वम् ॥
यत्ते᳚ शु॒क्रं त॒न्वो॒३॒᳚ रोच᳚ते॒ शुचि॒ तेना॒स्मभ्यं᳚ वनसे॒ रत्न॒मा त्वम् ॥
पदपाठः (Word-by-word)
इ॒दम् । अ॒ग्ने॒ । सु॑धि᳚तम् । दुः॑धि᳚तात् । अधि᳚ । प्रि॒यात् । ऊं॒ इति᳚ । चि॒त् । मन्म᳚नः । प्रेयः᳚ । अ॒स्तु॒ । ते॒ ।
यत् । ते॒ । शु॒क्रम् । त॒न्वः᳚ । रोच᳚ते । शुचि᳚ । तेन᳚ । अ॒स्मभ्य᳚म् । व॒न॒से॒ । रत्न᳚म् । आ । त्वम् ॥
यत् । ते॒ । शु॒क्रम् । त॒न्वः᳚ । रोच᳚ते । शुचि᳚ । तेन᳚ । अ॒स्मभ्य᳚म् । व॒न॒से॒ । रत्न᳚म् । आ । त्वम् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने इदमस्मदीयं सोमादिरूपं हविः कीदृशंतत् दुर्धितात् दुष्टंस्थापितात् कठिनात्काष्ठादेरधि- उपरि सुधितं सुहितं सुष्ठुदत्तं मन्मनोमननीयात्प्रियादुचित् तवहृद्यादपि उशब्दोवधारणे चिच्छ- ब्दोऽपिशब्दार्थः ते तव प्रेयः अतिप्रियतमः अस्तु तत्किं इत्याह हेअग्ने तेतव तन्वः शरीरस्य घृतेनो- ज्ज्वलितायाः ज्वालायाः शुचिर्निर्मलं शुक्रंदीप्तं यत्तेजोरोचते तेनसह रत्नं रमणीयं मणिमुक्तादिकं वितरन् त्वं अस्मभ्यं आवनसे अस्मान् संभजस्व वनतेर्व्यत्ययेनात्मनेपदम् ॥ ११ ॥