ओ षु त्वा᳚ ववृतीमहि॒ स्तोमे᳚भिर्दस्म सा॒धुभि᳚ः ।
न॒हि त्वा᳚ पूषन्नति॒मन्य᳚ आघृणे॒ न ते᳚ स॒ख्यम᳚पह्नु॒वे ॥
पदपाठः (Word-by-word)
ओ इति᳚ । सु । त्वा॒ । व॒वृ॒ती॒म॒हि॒ । स्तोमे᳚॑भिः । द॒स्म॒ । सा॒धु॑भिः᳚ ।
न॒हि । त्वा॒ । पू॒ष॒न् । अ॒ति॒॑मन्ये᳚ । आ॒घृ॒णे॒ । न । ते॒ । स॒ख्यम् । अ॒प॒॑ह्नु॒वे ॥
सायणभाष्यम् (Sayana Commentary)
हे अजाश्व पूषन् अजाशेतिपूषणमाहेतियास्कः । नोऽस्माकं अस्याः अस्यैचतुर्थ्यर्थेषष्ठी सातये- लाभाय अहेळमानः अक्रुध्यन् अनादरमकुर्वन् ररिवान् दाताचसन् सुसुष्ठुउपभुवः समीपस्थोभव रातेश्छान्दसस्यलिटःक्वसुः पदसंज्ञायाअभावेपिपपिवांसंतस्थिवांसमित्यादौ छान्दसोवग्रहोदृश्यते उइतिपादपूरणः किंच श्रवस्यतां अन्नमिच्छतामस्माकं हेअजाश्व अजाएवाश्वस्थानीयायस्यतादृ- शत्वं पूषनामेदं ररिवांश्चसन् उपभुवः ओइति निपातद्वयसमुदायात्मकएकोनिपातः हेदस्म शत्रूणां उपक्षपयितः पूषन् त्वात्वां ओषु ववृतीमहि सर्वतएवसुतरांवर्तयेमहि वृतेरन्तर्भावितण्यर्थाल्लिङि- बहुलंछन्दसीतिशपःश्लुः यज्ञान्तरगमनान्निवर्तयामः इत्यर्थः केनसाधनेनेतितदुच्यते—साधुभिःस्तो- मेभिः त्वांप्रीणयितुंसमर्थैःस्तोत्रैः किंच हे पूषन् आघृणे सर्वतोवृष्टेःक्षारयितः यद्वा आघृणे हविषामा- हर्तः स्वीकर्तः त्वां नह्यतिमन्ये अवमतिंनैवकरोमि नकेवलमनतिक्रममात्रं किंतु ते सख्यं तवसखित्वं- हितकर्तृत्वं नह्यपह्नुवे नैवापनयामि नत्यजामि सर्वतःप्रख्यापयामीत्यर्थः ॥ ४ ॥
अस्तुश्रौषळित्येकादशर्चंषष्ठंसूक्तम् अत्रानुक्रमणिका अस्तुश्रौषळेकादशवैश्वदेवीमैत्रावरुण्याश्वि- न्यस्तिस्रऎन्द्भाग्नेयीमारुत्यैन्द्राग्नीबार्हस्पत्यावैश्वदेव्यंत्यात्रिष्टुप् पंचमीबृहती वैश्वदेवमेतदेवमन्यासा- मपिसूक्तप्रयोगेवैश्वदेवत्वं सूक्तभेदप्रयोगेयल्लिंगंसादेवतेति परुच्छेपऋषिः अन्त्यात्रिष्टुप् पंचमीबृह- ती अन्याअत्यष्टयः विशेषाभावात्कृत्स्नंसूक्तंवैश्वदेवं तत्रआद्यायाविश्वेदेवादेवता द्वितीयायामित्रावरु- णौ अथतिस्रोऽश्विदेवताकाः ऎन्द्रीषष्ठी सप्तम्याग्नेयी अष्टमीमारुतीनवमीऎन्द्राग्नीदशमीबार्हस्पत्या एकादशीवैश्वदेवी सूक्तविनियोगोलैङ्गिकः दशरात्रस्यषष्ठेहनिप्रउगशस्त्रेआद्या वैश्वदेवतृचेप्रथमा ष- ष्ठस्येतिखण्डेसूत्रितम्—अस्तुश्रौषळोषूणोअग्नइति ।