श्रवणम्

1.183.2
सु॒वृद्रथो᳚ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ᳚थ॒ः क्रतु᳚म॒न्तानु᳚ पृ॒क्षे ।
वपु᳚र्वपु॒ष्या स᳚चतामि॒यं गीर्दि॒वो दु᳚हि॒त्रोषसा᳚ सचेथे ॥
▶ पदपाठः (Word-by-word)
सु॒॑वृत् । रथः᳚ । व॒र्त॒ते॒ । यन् । अ॒भि । क्षाम् । यत् । तिष्ठ᳚थः । क्रतु᳚॑मन्ता । अनु᳚ । पृ॒क्षे ।
वपुः᳚ । व॒पु॒ष्या । स॒च॒ता॒म् । इ॒यम् । गीः । दि॒वः । दु॒हि॒त्रा । उ॒षसा᳚ । स॒चे॒थे॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ युवयोरथः सुवृत् शोभनचक्रपरिभ्रमणः यन् गच्छन् क्षमभिवर्तते देवयजनभूमिंप्रतिग- च्छति यत् यंरथंक्रतुमन्तासंकल्पवन्तौकर्मवन्तौवापृक्षे अन्ननामैतत् हविषि निमित्तभूतेसति अनु अधीत्यर्थे अधितिष्ठथः आश्रयथः तादृशोरथोदेवयजनंप्रत्यागतइत्यर्थः अनन्तरंवपुष्यायुष्मद्वपुषिहि- ताशरीरवर्धनीयंगीः इदानींक्रियमाणप्रकारास्तुतिरूपावाक् वपुः सचतांयुवांचदिवोद्युलोकस्यादि- त्यस्यवादुहित्रादुहितृस्थानीयया उषसा उषोदेवतयासचेथे यज्ञं सङ्गच्छेथे उषस्याश्विनयोः समान- कालत्वादितिभावः ॥ २ ॥