मा वां॒ वृको॒ मा वृ॒कीरा द᳚धर्षी॒न्मा परि᳚ वर्क्तमु॒त माति᳚ धक्तम् ।
अ॒यं वां᳚ भा॒गो निहि᳚त इ॒यं गीर्दस्रा᳚वि॒मे वां᳚ नि॒धयो॒ मधू᳚नाम् ॥
अ॒यं वां᳚ भा॒गो निहि᳚त इ॒यं गीर्दस्रा᳚वि॒मे वां᳚ नि॒धयो॒ मधू᳚नाम् ॥
पदपाठः (Word-by-word)
मा । वा॒म् । वृकः᳚ । मा । वृ॒कीः । आ । द॒ध॒र्षी॒त् । मा । परि᳚ । व॒र्क्त॒म् । उ॒त । मा । अति᳚ । ध॒क्त॒म् ।
अ॒यम् । वा॒म् । भा॒गः । नि॑हि᳚तः । इ॒यम् । गीः । दस्रौ᳚ । इ॒मे । वा॒म् । नि॒॑धयः᳚ । मधू᳚नाम् ॥
अ॒यम् । वा॒म् । भा॒गः । नि॑हि᳚तः । इ॒यम् । गीः । दस्रौ᳚ । इ॒मे । वा॒म् । नि॒॑धयः᳚ । मधू᳚नाम् ॥
सायणभाष्यम् (Sayana Commentary)
हेदस्रौशत्रूणामुपक्षपयितारावश्विनौ वांयुवयोरनुग्रहदितिशेषः वृकोहिंसकोरण्यश्वादिर्मादधर्षीत् धर्षणंमाकार्षीन्मां तथावृकीः वृक्योहिंसकाःअन्याअपिमादधर्षीत् वचनव्यत्ययः धर्षणंमाकार्षुःयुवा- मेववामादधर्षीदितियोज्यं तथा युवांमापरिवर्क्तं परितोमावर्जयतंमां उतअपिच मातिधक्तं अस्मान- तिक्रम्यान्यस्मैमादत्तं किमर्थमेवमितिउच्यते वांयुवयोरर्थायभागोभजनीयोहविरंशोनिहितः तथेयं- चगीः स्तुतिरूपावागपिनिहितेतिशेषः हेदस्रावश्विनौवांयुवाभ्यां इमे इमानिमधूनांसोमरसानांनिध- योनिधानानिस्थापितानि ॥ ४ ॥