श्रवणम्

1.183.6
अता᳚रिष्म॒ तम᳚सस्पा॒रम॒स्य प्रति᳚ वां॒ स्तोमो᳚ अश्विनावधायि ।
एह या᳚तं प॒थिभि᳚र्देव॒यानै᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
अता᳚रिष्म । तम᳚सः । पा॒रम् । अ॒स्य । प्रति᳚ । वा॒म् । स्तोमः᳚ । अ॒श्वि॒नौ॒ । अ॒धा॒यि॒ ।
आ । इ॒ह । या॒त॒म् । प॒थि॑भिः᳚ । दे॒व॒॑यानैः᳚ । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ युवयोःप्रसादादस्यतमसः तमनहेतोः श्रेयःप्रतिबन्धरूपस्यदुःखस्यपारंपर्यन्तभूमिं अतारिष्म उत्तीर्णाःस्मः हेअश्विनौ वांप्रतिस्तोमः स्तोत्रं अधायि अकारीत्यर्थः युवांदेवयानैर्देवग- न्तव्यैर्मार्गैरिहास्मद्यज्ञे आयातं आगच्छतं शिष्टोव्याख्यातः ॥ ६ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् ॥ पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरेणसायणा- चार्येणविरचितेमाधवीयेवेदार्थप्रकाशेऋक्संहिताभाष्येद्वितीयाष्टकेचतुर्थोध्यायः ॥ ४ ॥