श्रवणम्

1.62.13
स॒ना॒य॒ते गोत᳚म इन्द्र॒ नव्य॒मत᳚क्ष॒द्ब्रह्म᳚ हरि॒योज᳚नाय ।
सु॒नी॒थाय᳚ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव᳚सुर्जगम्यात् ॥
▶ पदपाठः (Word-by-word)
स॒ना॒॑य॒ते । गोत᳚मः । इ॒न्द्र॒ । नव्य᳚म् । अत᳚क्षत् । ब्रह्म᳚ । ह॒रि॒॑योज᳚नाय ।
सु॒॑नी॒थाय᳚ । नः॒ । श॒व॒सा॒न॒ । नो॒धाः । प्रा॒तः । म॒क्षु । धि॒या॑व᳚सुः । ज॒ग॒म्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इंद्रः सनायते । नित्य इवाचरति । सर्वेषामाद्यो भवति । हे शवसान बलवन्निंद्र हरियोजनाय । हरी अश्वौ रथे योजयतीति हरियोजनः । सुनीथाय सुष्ठु नेत्रे । एवं भूताय तस्मै तुभ्यं गोमतो गोतमस्य ऋषेः पुत्रो नोधा ऋषिर्नव्यं नूतनं ब्रह्मैतत्सूक्तरूपं स्तोत्रं नोऽस्मदर्थमतक्षत् । अकरोत् । अतोऽस्माभिरनेन स्तोत्रेण स्तुतः सन्धिया बुद्ध्या कर्मणा वा प्राप्तवसुरिंद्रः प्रातःकाले मक्षु शीघ्रं जगम्यात् । आगच्छतु ॥ सनायते । सनेति निपातो नित्यशब्दसमानार्थः । तस्मादाचारार्थे क्यङ् प्रत्ययः । सुनीथाय । णीञ् प्रापण इत्यस्मादौणादिकस्थक्प्रत्ययः । थाथादिस्वरः ॥ १३ ॥