श्रवणम्

1.62.9
सने᳚मि स॒ख्यं स्व᳚प॒स्यमा᳚नः सू॒नुर्दा᳚धार॒ शव᳚सा सु॒दंसा᳚ः ।
आ॒मासु᳚ चिद्दधिषे प॒क्वम॒न्तः पयः᳚ कृ॒ष्णासु॒ रुश॒द्रोहि᳚णीषु ॥
▶ पदपाठः (Word-by-word)
सने᳚मि । स॒ख्यम् । सु॒॑अ॒प॒स्यमा᳚नः । सू॒नुः । दा॒धा॒र॒ । शव᳚सा । सु॒॑दंसाः᳚ ।
आ॒मासु᳚ । चि॒त् । द॒धि॒षे॒ । प॒क्वम् । अ॒न्तरिति᳚ । पयः᳚ । कृ॒ष्णासु᳚ । रुश᳚त् । रोहि᳚णीषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वपस्यनूनः । स्वपः शोभनं कर्म । तदिवाचरन् शवसा शवसो बलस्य सूनुः पुत्रः । अतिबलवानित्यर्थः । सुदंसाः शोभनयागादिकर्मयुक्तः । एवंभूत इंद्र सख्यं यजमानानां सखित्वं सनेमि पुराणं दाधार । धारयति । पोषयतीत्यर्थः । सनेमीति पुराणनाम । प्रवयाः । सनेमीति पाठात् । किंचामासु चित् आर्द्रास्वपरिपक्वासु गोषु चांतर्मध्ये पक्वं परिपक्वं पयो दधिषे । धारयसि । तथा कृष्णासु कृष्णवर्णासु रोहिणीषु लोहितवर्णासु च गोषु तद्विपरीतं रुशद्दीप्यमानं श्वेतवर्णं पयो दधिषे ॥ सख्यम् । सख्युर्भावः सख्यम् । सख्युर्यइति यः । प्रत्ययस्वरः । दाधार । धृञ् धारणे । तुजादित्वादभ्यासस्य दीर्घत्वम् । पक्वम् । पचो वः (पा ८-२-५२) इति निष्ठातकारस्य वत्वम् । रोहिणेषु । रुह बीजजन्मनि प्रादुर्भावे । रुहे रश्च लो वा (उ ३-९४) इतीतन्प्रत्ययांतो रोहितशब्द आद्युदात्तो वर्णवाची । वर्णादनुदात्तात्तोपधात्तो नः (पा ४-१-३९) इति ङीप् । तत्संनियोगेन तकारस्य नकारादेशश्च । ङीपः पित्त्वादनुदात्तत्वे प्रातिपदिकरस्वर एव शिष्यते ॥ ९ ॥