वि भूम्या᳚ अप्रथय इन्द्र॒ सानु᳚ दि॒वो रज॒ उप᳚रमस्तभायः ॥
पदपाठः (Word-by-word)
वि । भूम्याः᳚ । अ॒प्र॒थ॒यः॒ । इ॒न्द्र॒ । सानु᳚ । दि॒वः । रजः᳚ । उप᳚रम् । अ॒स्त॒भा॒यः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे दस्म दर्शनीय शत्रूणामुपक्षयितर्वेंद्र त्वमंगिरोभिर्ऋषिभिर्गृणानः स्तूयमानः सन् उषसा सूर्येण च सह गोभिः किरणैरंधोऽंधकारं वि वः । व्यवृणोः । व्यनाशय इत्यर्थः । तथा हे इंद्र त्वं भूम्याः पृथिव्याः सानु समुच्छ्रितप्रदेशं व्यप्रथयः । विशेषेण विस्तीर्णमकरोः । विषमामिमां समीकृतवानित्यर्थः । तथा दिवोऽंतरिक्षस्य रजो रजसो लोकस्योपरमुप्तं मूलप्रदेशमस्तभायः । अस्तभ्नाः । यथांतरिक्षलोकस्य मूलं दृढं भवति तथाकार्षीरित्यर्थः ॥ गृणानः । कर्मणि लटः शानचि यकि प्राप्ते व्यत्ययेन श्ना । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । चित्स्वरेणांतोदात्तत्वम् । दस्म । दसु उपक्षये । इषियुधींधिदसीत्यादिना मक् । वः । वृञ् वरणे । लुङि सिपि मंत्रे घसेत्यादिना च्लेर्लुक् । गुणे हल्ङ्याब्भ्य इति सलोपः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । अंधः । तमोऽप्यंध उच्यते नास्मिन्ध्यानं भवति । नि । ५-१ । इति यास्कः । रजः । लोका राजांस्युच्यंत इत्युक्तत्वाद्रजःशब्दो लोकवचनः । सुपां सुलुगिति षष्ठ्यालुक् । अस्तभायः । लङि स्तंभुस्तुंभ्वित्यादिना (पा ३-१-८२) श्नाप्रत्ययस्य शायजादेशः । अनिदितामिति नलोपः अडागमः ॥ ५ ॥