श्रवणम्

1.31.5
त्वम᳚ग्ने वृष॒भः पु᳚ष्टि॒वर्ध᳚न॒ उद्य᳚तस्रुचे भवसि श्र॒वाय्य᳚ः ।
य आहु᳚तिं॒ परि॒ वेदा॒ वष᳚ट्कृति॒मेका᳚यु॒रग्रे॒ विश᳚ आ॒विवा᳚ससि ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । वृ॒ष॒भः । पु॒ष्टि॒॑वर्ध᳚नः । उद्य᳚त॑स्रुचे । भ॒व॒सि॒ । श्र॒वाय्यः᳚ ।
यः । आ॑हु᳚तिम् । परि᳚ । वेद᳚ । वष᳚ट्॑कृतिम् । एक᳚॑आयुः । अग्ने᳚ । विशः᳚ । आ॒॑विवा᳚ससि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं वृषभः कामानां वर्षिता पुष्टिवर्धनो यजमानस्य धनादिपोषाभिवृद्धिहेतुः उद्यतस्रुच उद्धृतया स्रुचा युक्ताय यजमानाय तदनुग्रहार्थं श्रवाय्यो मंत्रैः श्रवणीयो भवसि । यो यजमानो वषट्कृतिं वषट्कारयुक्तामाहुतिं परि वेद परितो जानाति । समर्पयतीत्यर्थः । एकायुर्मुख्यान्नस्त्वमग्रे प्रथमं तं यजमानं विशस्तदनुकूलाः प्रजा आविवाससि । सर्वतः प्रकाशयसि ॥ पुष्टिवर्धनः । वृधु वृद्धौ । अस्माणिजंतान्नंद्यादित्वात् ल्युः । लित्स्वरेणोत्तरपदस्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेण स एव शिष्यते । उद्यतस्रुचे । यम उपरमे । अस्मादुत्पूर्वान्निष्ठेति क्तप्रत्यय अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । उद्यता स्रुग्येनेति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वेद । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वं ॥ ३२ ॥ ५ ॥