श्रवणम्

1.31.9
त्वं नो᳚ अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व᳚नवद्य॒ जागृ᳚विः ।
त॒नू॒कृद्बो᳚धि॒ प्रम᳚तिश्च का॒रवे॒ त्वं क᳚ल्याण॒ वसु॒ विश्व॒मोपि᳚षे ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒ग्ने॒ । पि॒त्रोः । उ॒प॑स्थे᳚ । आ । दे॒वः । दे॒वेषु᳚ । अ॒न॒व॒द्य॒ । जागृ᳚विः ।
त॒नू॒॑कृत् । बो॒धि॒ । प्र॑म᳚तिः । च॒ । का॒रवे᳚ । त्वम् । क॒ल्या॒ण॒ । वसु᳚ । विश्व᳚म् । आ । ऊ॒पि॒षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अनवद्य दोषरहिताग्ने देवेषु सर्वेषु मध्ये जागृविर्जागरूकस्त्वं पित्रोर्मातृपितृरूपयोर्द्यावापृथिव्योरुपस्थे समीपस्थाने वर्तमानः सन्नोऽस्माकं तनूकृत् पुत्ररूपशरीरकारी भूत्वा बोधि । बुध्यस्व । अनुगृहाणेत्यर्थः । तथा कारवे कर्मकर्त्रे यजमानाय प्रमतिश्चानुग्रहरूपप्रकृष्टमतियुक्तश्च भवेति शेषः । हे कल्याण मंगलरूपाग्ने त्वं विश्वं वसु सर्वमपि धनमोपिषे । यजमानार्थमावपसि ॥ उपस्थे । सुपि स्थः (पा ३-२-४) इति तिष्ठतेः कः प्रत्ययः आतो लोप इति चेत्याकारलोपः । मरुद्वधादीनां छंदस्युपसंख्यानम् । पा ६-२-१०६-२ । इति पूर्वपदांतोदात्तत्वम् । जागृविः । जागृ निद्राक्षये जृशृस्तृजागृभ्यः क्विन् (उ ४-५४) इति क्विन् । नित्वादाद्युदात्तत्वम् । बोधि । बुध अवगमने । बहुलं छंदसीति शपो लुक् । वा छंदसीति हेरपित्त्वस्य विकल्पितत्वेन पित्त्वादङित्वे सत्यङितश्च (पा ६-४-१०३) इति हेर्धिरादेशः । लघूपधगुणः । धातोरंत्यलोपश्छांदसः । प्रमतिः । मन ज्ञाने । क्तिन्यनुदात्तोपदेशेत्यादिनानुसिकलोपः । प्रकृष्टा मतिर्यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ऊपिषे । डुवप् बीजतंतुसंताने । छांदसे लिट थासः से । वचिस्वपीत्यादिना संप्रसारणपरपूर्वत्वे द्विर्भावहलादिशेषौ । क्रादिनियमादिट् ॥ ९ ॥