श्रवणम्

1.31.17
म॒नु॒ष्वद᳚ग्ने अङ्गिर॒स्वद᳚ङ्गिरो ययाति॒वत्सद᳚ने पूर्व॒वच्छु᳚चे ।
अच्छ᳚ या॒ह्या व᳚हा॒ दैव्यं॒ जन॒मा सा᳚दय ब॒र्हिषि॒ यक्षि᳚ च प्रि॒यम् ॥
▶ पदपाठः (Word-by-word)
म॒नु॒ष्वत् । अ॒ग्ने॒ । अ॒ङ्गि॒र॒स्वत् । अ॒ङ्गि॒रः॒ । य॒या॒ति॒॑वत् । सद᳚ने । पू॒र्व॒॑वत् । शु॒चे॒ ।
अच्छ᳚ । या॒हि॒ । आ । व॒ह॒ । दैव्य᳚म् । जन᳚म् । आ । सा॒द॒य॒ । ब॒र्हिषि᳚ । यक्षि᳚ । च॒ । प्रि॒यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शुचे शुद्धियुक्तांगिरोंऽगनशील हविरादानाय तत्र तत्र गमनशीलाग्ने अच्छाभिमुख्येन सदने देवयजनदेशे याहि । गच्छ । तत्र चत्वारो दृष्टांताः । मनुष्वत् यथा मनुरनुष्ठानदेशे गच्छति । अंगिरस्वत् यथा चांगिरा गच्छति । ययातिवत् यथा ययातिर्नाम राजा गच्छति । पूर्ववत् अन्ये च पूर्वपुरुषा यथा गच्छंति । यथा मन्वादयो यज्ञे गच्छंति तद्वत् । अथवा मन्वादीनां यज्ञे यथा त्वं गच्छसि तद्वत् । गत्वा च दैव्यं देवतासमूहरूपं जनमा वह । अस्मिन्कर्मण्यानय । आनीय च बर्हिष्यास्तीर्णे दर्भ आ सादय । तान्देवानुपवेशय । उपवेश्य च प्रियमभीष्टं हविर्यक्षि च । देहि ॥ मनुष्वत् । तेन तुल्यमिति प्रथमार्थे वा तत्र तस्येवेति षष्ठ्यर्थे वा वतिः । पा ५-१-११५-११६ । अयस्मयादित्वेन भत्वाद्रुत्वाद्यभावः । प्रत्ययस्वरः । एवमंगिरस्वदित्यादिषु । वह । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । यक्षि । लोट बहुलं छंदसीति शपो लुक् । सेर्ह्यपिच्चेति हेरभावश्छांदसः । षत्व कत्वे ॥ १७ ॥