त्वम᳚ग्ने॒ प्रम᳚ति॒स्त्वं पि॒तासि᳚ न॒स्त्वं व᳚य॒स्कृत्तव᳚ जा॒मयो᳚ व॒यम् ।
सं त्वा॒ रायः᳚ श॒तिन॒ः सं स᳚ह॒स्रिणः᳚ सु॒वीरं᳚ यन्ति व्रत॒पाम᳚दाभ्य ॥
सं त्वा॒ रायः᳚ श॒तिन॒ः सं स᳚ह॒स्रिणः᳚ सु॒वीरं᳚ यन्ति व्रत॒पाम᳚दाभ्य ॥
पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । प्र॑म᳚तिः । त्वम् । पि॒ता । अ॒सि॒ । नः॒ । त्वम् । व॒यः॒॑कृत् । तव᳚ । जा॒मयः᳚ । व॒यम् ।
सम् । त्वा॒ । रायः᳚ । श॒तिनः᳚ । सम् । स॒ह॒स्रिणः᳚ । सु॒वीर᳚म् । य॒न्ति॒ । व्र॒त॒॑पाम् । अ॒दा॒भ्य॒ ॥
सम् । त्वा॒ । रायः᳚ । श॒तिनः᳚ । सम् । स॒ह॒स्रिणः᳚ । सु॒वीर᳚म् । य॒न्ति॒ । व्र॒त॒॑पाम् । अ॒दा॒भ्य॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वं प्रमतिरस्मदनुग्रहरूपप्रकृतिष्टमतियुक्तोऽसि । तथा त्वं नोऽस्माकं पिता पालकोऽसि तथा त्वं वयस्कृत् । आयुष्यप्रदोऽसि वयमनुष्ठातारस्तव जामयो बंधवः । हे अदाभ्य केनाप्यहिंसनीयाग्ने सुवीरं शोभनपुरुषयुक्तं व्रतपां कर्मणः पालकं त्वां शतिनः शतसंख्यायुक्ता रायो धनानि सं यंति । सम्यक् प्राप्नुवंति । तथा सहस्रिणः सहस्रसंख्याकारायः सं यंति ॥ सुवीरम् । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वे प्राप्ते वीरवीर्यौ च (पा ६-२-१२०) इत्युत्तरपदाद्युदात्तत्वम् । अदाभ्य । दभिः प्रकृत्यंतरमस्तीति केचिदाहुः । दभेश्चेति वक्तव्यम् । पा ३-१-१२४-३ । इति ण्यत् ॥ ३३ ॥ १० ॥