त्वं नो᳚ अग्ने॒ तव᳚ देव पा॒युभि᳚र्म॒घोनो᳚ रक्ष त॒न्व᳚श्च वन्द्य ।
त्रा॒ता तो॒कस्य॒ तन᳚ये॒ गवा᳚म॒स्यनि᳚मेषं॒ रक्ष᳚माण॒स्तव᳚ व्र॒ते ॥
त्रा॒ता तो॒कस्य॒ तन᳚ये॒ गवा᳚म॒स्यनि᳚मेषं॒ रक्ष᳚माण॒स्तव᳚ व्र॒ते ॥
पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒ग्ने॒ । तव᳚ । दे॒व॒ । पा॒यु॑भिः᳚ । म॒घोनः᳚ । र॒क्ष॒ । त॒न्वः᳚ । च॒ । व॒न्द्य॒ ।
त्रा॒ता । तो॒कस्य᳚ । तन᳚ये । गवा᳚म् । अ॒सि॒ । अनि᳚॑मेषम् । रक्ष᳚माणः । तव᳚ । व्र॒ते ॥
त्रा॒ता । तो॒कस्य᳚ । तन᳚ये । गवा᳚म् । अ॒सि॒ । अनि᳚॑मेषम् । रक्ष᳚माणः । तव᳚ । व्र॒ते ॥
सायणभाष्यम् (Sayana Commentary)
हे वंद्य वंदनीयाग्ने देव त्वं तव पायुभिस्त्वदीयैः पालनैर्मघोनो धनयुक्तान्नोऽस्मान् रक्ष । तथा तन्वश्च । तनूः पुत्रदेहानपि रक्ष । तोकस्यास्मदीयस्य पुत्रस्य यस्तनयोऽस्मत्पौत्रादिस्तव व्रते त्वदीये कर्मण्यनिमेषं निरंतरं रक्षमाणः सावधानो वर्तते तस्मिन्या गावः संति तासां गवां त्राता रक्षकोऽसि । ईदृशस्य तवास्मद्रक्षणे किमु वक्तव्यमित्यर्थः ॥ मघोनः । शसि श्वयुवमघोनामतद्धिते (पा ६-४-१३३) इति संप्रसारणम् । तन्वः । सुपां सुपो भवंतीति शसो जसादेशः । पूर्वसवर्णदीर्घस्य दीर्घाज्जसि चेति प्रतिषेधः । उदात्तस्वरितयोर्यण इति स्वरितत्वम् । शसि ह्युदात्तयणो हल्पूर्वादिति विभक्युदात्तत्वं स्यात् ॥ १२ ॥