उ॒त प्र णे᳚ष्य॒भि वस्यो᳚ अ॒स्मान्त्सं नः᳚ सृज सुम॒त्या वाज᳚वत्या ॥
पदपाठः (Word-by-word)
उ॒त । प्र । ने॒षि॒ । अ॒भि । वस्यः᳚ । अ॒स्मान् । सम् । नः॒ । सृ॒ज॒ । सु॒॑म॒त्या । वाज᳚॑वत्या ॥
सायणभाष्यम् (Sayana Commentary)
साग्निचयने क्रतावुखासंभरणीयायामिष्टावग्नेर्ब्रह्मण्वतः पुरोनुवाक्यैतेनाग्न इत्येषा । दर्शपूर्णमासाभ्यामिष्ट्वेति खंड एतेनाग्ने ब्रह्मणा वावृधस ब्रह्म च ते जातवेदो नमश्च (आ ४-१) इति सूत्रितं ॥
हे अग्ने एतेनास्मत्प्रयुक्तेन ब्रह्मणा मंत्रेण ववृधस्व । अभिवृद्धो भव । शक्ती वा विदा वा अस्मदीयशक्त्या चास्मदीयज्ञानेन च ते तव यत्सोत्रं चकृम वयं कृतवंतः । एतेन ब्रह्मणेति पूर्वत्रान्वयः । उतापि चास्माननुष्ठातृन् वस्यो वसुमत्तरत्वलक्षणं श्रेयः प्रणेषि । प्रकर्षेणि प्रापय । नोऽस्मान्वाजवत्या प्रभूतान्नयुक्तया सुमत्यानुष्ठानविषयया शोभनबुद्ध्या सं सृज । संयोजय ॥ ववृधस्व । वृधु वृद्धौ । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः । द्विर्भावहलादिशेषोरदत्वानि । अभ्यासस्य संहितायां दीर्घश्छांदसः । शक्ती । सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घत्वम् । क्तिनो नित्त्वादाद्युदात्तत्वम् । विदा । सावेकाच इति तृतीयाया उदात्तत्वम् । नेषि । णीञ् प्रापणे । बहुलं छंदसीति शपो लुक् । उपसर्गादसमास इति णत्वम् । सुमत्या । मन् क्तिन्नित्यादिनोत्तरपदांतोदात्तत्वं प्रथमाध्याये प्रपंचितम् । ऋग्वे १-७-७ । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वं ॥ ३५ ॥ १८ ॥