तं त्वा॒ नरो॒ दम॒ आ नित्य᳚मि॒द्धमग्ने॒ सच᳚न्त क्षि॒तिषु᳚ ध्रु॒वासु᳚ ।
अधि᳚ द्यु॒म्नं नि द᳚धु॒र्भूर्य᳚स्मि॒न्भवा᳚ वि॒श्वायु᳚र्ध॒रुणो᳚ रयी॒णाम् ॥
अधि᳚ द्यु॒म्नं नि द᳚धु॒र्भूर्य᳚स्मि॒न्भवा᳚ वि॒श्वायु᳚र्ध॒रुणो᳚ रयी॒णाम् ॥
पदपाठः (Word-by-word)
तम् । त्वा॒ । नरः᳚ । दमे᳚ । आ । नित्य᳚म् । इ॒द्धम् । अ॒ग्ने॒ । सच᳚न्त । क्षि॒तिषु᳚ । ध्रु॒वासु᳚ ।
अधि᳚ । द्यु॒म्नम् । नि । द॒धुः॒ । भूरि᳚ । अ॒स्मि॒न् । भव᳚ । वि॒श्व॑आ᳚युः । ध॒रुणः᳚ । र॒यी॒णाम् ॥
अधि᳚ । द्यु॒म्नम् । नि । द॒धुः॒ । भूरि᳚ । अ॒स्मि॒न् । भव᳚ । वि॒श्व॑आ᳚युः । ध॒रुणः᳚ । र॒यी॒णाम् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने तं त्वा पूर्वोक्तगुणविशिष्टं त्वां नरो यज्ञस्य नेतारो यजमाना ध्रुवासु क्षितिषु निश्चलासु चलनरहितासु भूमिषु । निरुपद्रवेषु ग्रामेष्वित्यर्थः । दमे स्वकीये यज्ञगृहे नित्यमिद्धमनवरतं समिद्भिः प्रज्वलितं कृत्वा आ सचंत । आभिमुख्येन सेवंते । किंचास्मिन्नग्नौ द्युम्नं हविर्लक्षणमन्नं भूरि चरुपुरोडाशादिरूपेण बहुविधमधि नि दधुः । स्थापितवंतः । एवंगुणविशिष्टो योऽग्निः स त्वं विश्वायुरुक्तप्रकारेण सर्वान्नो भूत्वा रयीणां धनानां धरुणो धारयिता भव । अस्मभ्यं दातुं धनानि धारयेत्यर्थः ॥ सचंत । षच समवाये । छांदसो वर्तमाने लङ् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । भव । द्वचोऽतस्तिङ इति संहितायां दीर्घः । धरुणः धारेर्णिलुक्चेत्युनप्रत्ययः ॥ ४ ॥