त्वे अ᳚ग्ने सुम॒तिं भिक्ष᳚माणा दि॒वि श्रवो᳚ दधिरे य॒ज्ञिया᳚सः ।
नक्ता᳚ च च॒क्रुरु॒षसा॒ विरू᳚पे कृ॒ष्णं च॒ वर्ण᳚मरु॒णं च॒ सं धु᳚ः ॥
नक्ता᳚ च च॒क्रुरु॒षसा॒ विरू᳚पे कृ॒ष्णं च॒ वर्ण᳚मरु॒णं च॒ सं धु᳚ः ॥
पदपाठः (Word-by-word)
त्वे इति᳚ । अ॒ग्ने॒ । सु॒॑म॒तिम् । भिक्ष᳚माणाः । दि॒वि । श्रवः᳚ । द॒धि॒रे॒ । य॒ज्ञियाः᳚ ।
नक्ता᳚ । च॒ । च॒क्रुः । उ॒षसा᳚ । विरू᳚पे॒ इति॒ वि॑रू᳚पे । कृ॒ष्णम् । च॒ । वर्ण᳚म् । अ॒रु॒णम् । च॒ । सम् । धु॒रिति᳚ धुः ॥
नक्ता᳚ । च॒ । च॒क्रुः । उ॒षसा᳚ । विरू᳚पे॒ इति॒ वि॑रू᳚पे । कृ॒ष्णम् । च॒ । वर्ण᳚म् । अ॒रु॒णम् । च॒ । सम् । धु॒रिति᳚ धुः ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने सुमतिं शोभनामनुग्रहात्मिकां बुद्धिं भिक्षमाणा याचमाना यज्ञियासो यज्ञार्हाः सर्वे देवा दिवि द्योतमाने त्वे त्वयि श्रवो हविर्लक्षणमन्नं दधिरे । अस्थापयन् । अग्निर्देवानामन्नाद इति श्रुतेः । तदनंतरं तादृशे हविर्युक्तायानुष्ठानाय विरूपे विविधरूपे उषसोषःकालोपलक्षितमहर्नक्ता च नक्तं रात्रिं च चक्रुः । अकुर्वन् । एतदेव स्पष्टयति । कृष्णं च वर्णं रात्र्यां श्यामलवर्णमंधकारमह्न्यरुणमारोचनं श्वेतवर्णं तेजश्च सं धुः । सम्यक् स्थापितवंतः ॥ त्वे । सुपां सुलुगिति सप्तम्याः शेआदेशः । नक्ता । तेनैव द्वितियाया डादेशः । उषसा । तेनैव विभक्तेराकारः । धुः । डुधाञ् धारणपोषणयोः । लुङि गातिस्थेति सिचो लुक् । आत इति झेर्जुसादेशः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ ७ ॥