छा॒येव॒ विश्वं॒ भुव᳚नं सिसक्ष्यापप्रि॒वान्रोद᳚सी अ॒न्तरि᳚क्षम् ॥
पदपाठः (Word-by-word)
छा॒या॑इ᳚व । विश्व᳚म् । भुव᳚नम् । सि॒स॒क्षि॒ । आ॒प॒प्रि॒॑वान् । रोद᳚सी॒ इति᳚ । अ॒न्तरि᳚क्षम् ॥
सायणभाष्यम् (Sayana Commentary)
यान्मर्तान्मनुष्यानस्मान्राये धनाय सुषूदः अग्निहोत्रादिकर्मसु प्रेरयसि ते तादृशा वयं च मघवानो धनिनः स्याम । भवेम । रोदसी द्यावापृथिव्यावंतरिक्षं चापप्रिवान् स्वतेजसा वृष्ट्युदकेन वापूरितवांस्त्वं च विश्वं भुवनं सर्वं जगत् सिसक्षि । सेवसे । अनुगृह्य सर्वं रक्षसीत्यर्थः । तत्र दृष्टांतः । छायेव । यथा छत्त्रादेश्भायातपादिजनितं क्लेशं निवार्य रक्षति तद्वत् ॥ राये । ऊडिदमिति विभक्तेरुदात्तत्वम् । सुषूदः । षूद प्रेरणे । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः अभ्यस्तानामादिरित्याद्युदात्तत्वम् । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । सिसक्षि । षच समवाये । बहुलं छंदसीति शपः श्लुः । इदित्यनुवृत्तौ बहुलं छंदसीत्यभ्यासस्येत्वम् । अपप्रिवान् । प्रा पूरणे । लिटः क्वसुः । वस्वेकाजाद्घसामितीडागमः । आतो लोप इट चेत्याकारलोपः । द्विर्वचनेऽचीति स्थानिवद्भावात् द्विर्भावादि ॥ ८ ॥