स॒नेम॒ वाजं᳚ समि॒थेष्व॒र्यो भा॒गं दे॒वेषु॒ श्रव᳚से॒ दधा᳚नाः ॥
पदपाठः (Word-by-word)
स॒नेम᳚ । वाज᳚म् । स॒म्॑इ॒थेषु᳚ । अ॒र्यः । भा॒गम् । दे॒वेषु᳚ । श्रव᳚से । दधा᳚नाः ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने मघवानो हविर्लक्षणेन धनेन युक्ता यजमानाः पृक्षोऽन्नानि व्यश्युः । व्याप्नुवंतु । त्वयानुगृहीताः सर्वाण्यन्नानि लभंताम् । ये च सूरये विद्वांसस्त्वां स्तुवंति । ददतो ये च तुभ्यं हवींषि ददशः । प्रयच्छंतो वर्तंते ते सर्वे विश्वमायुः सर्वं जीवितं व्यश्युः । व्याप्नुवंतु । वयं च समिथेषु संग्रामेष्टर्योऽरेः शत्रोः संबंधिनं वाजमन्नं सनेम । त्वदनुग्रहात्संभजेमहि । तदनंतरं देवेषु त्वत्प्रमुखेष्टिंद्रादिषु श्रवसे यशसे तदर्थं भागं हविर्भागं दधानाः स्थापयंतो भूयास्मेति शेषः ॥ अत्युः अकू व्याप्तौ । व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति विकरणस्य लुक् । दशतः । नाभ्यस्ताच्छतुरिति नुमागमप्रतिषेधः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । सनेम । वन षण संभक्तौ । व्यत्ययेन शः । अर्यः । अरिशब्दात्षष्ठ्येकवचने जसादिषु च्छंदसि वा वचनमिति घेर्ङितीति गुणाभावे यणादेशः । अरिशब्द अच इरितीप्रत्ययांतोऽंतोदात्तः । उदात्तयण इति विभक्तेरुदात्तत्वम् । भागम् । कर्षात्वत इत्यंतोदात्तत्वं ॥ ५ ॥