श्रवणम्

1.132.5
सं यज्जना॒न्क्रतु᳚भि॒ः शूर᳚ ई॒क्षय॒द्धने᳚ हि॒ते त᳚रुषन्त श्रव॒स्यव॒ः प्र य᳚क्षन्त श्रव॒स्यवः᳚ ।
तस्मा॒ आयु᳚ः प्र॒जाव॒दिद्बाधे᳚ अर्च॒न्त्योज᳚सा ।
इन्द्र᳚ ओ॒क्यं᳚ दिधिषन्त धी॒तयो᳚ दे॒वा{4} अच्छा॒ न धी॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
सम् । यत् । जना᳚न् । क्रतु᳚॑भिः । शूरः᳚ । ई॒क्षय᳚त् । धने᳚ । हि॒ते । त॒रु॒ष॒न्त॒ । श्र॒व॒स्यवः᳚ । प्र । य॒क्ष॒न्त॒ । श्र॒व॒स्यवः᳚ ।
तस्मै᳚ । आयुः᳚ । प्र॒जा॑व᳚त् । इत् । बाधे᳚ । अ॒र्च॒न्ति॒ । ओज᳚सा ।
इन्द्र᳚ । ओ॒क्य᳚म् । दि॒धि॒ष॒न्त॒ । धी॒तयः᳚ । दे॒वान् । अच्छ᳚ । न । धी॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत् यइन्द्रः शूरः विक्रान्तःसन् जनान्सर्वान्प्राणिनः क्रतुभिः प्रज्ञाभिः समीक्षयत् सम्यगीक्षयति तत्तद्विषयान् अन्तर्यामिरूपेण सर्वेषांबुद्धिषुस्थित्वा तैर्विषयानुल्लेखयतीत्यर्थः यद्वा क्रतुभिः कर्मभिः सुकृतदुष्क्रुतरूपैर्निमि रतैस्तत्तत्फलैर्योजयति एवंप्रेरयतिसति श्रवस्यवोन्नमिच्छन्तोयजमानाः धने- गवादिरूपेहिते अभिमतेसति यद्वा हिते धने अभिप्रेतेसति तरुषन्ताहिंसन्तिशत्रून् तरुष्यतिर्वधकर्मा छान्दसेलुङिव्यत्ययेनच्लेरङ् तरतेर्वालङिउकारशिप् शपस्त्रयोविकरणाः तरन्तीत्यर्थः अतः कारणात् श्रवस्यवोन्नंहविर्लक्षणं इन्द्रायात्मनेवा इच्छन्तःसन्तः प्रयक्षन्त प्रकर्षेणयजन्ते छान्दसेलुङिव्यत्ययेन- क्सः किंच तस्माइत् तस्मै प्रसिद्धायेन्द्रायैव आयुर्हविर्लक्षणमन्नं प्रजावत् पुत्रादिसहितंभवति तैःस- हितैर्दीयतेइत्यर्थः किंच यजमानाः ओजसा स्वकीयेनबलेनयुक्ताः बाधे शत्रूणांबाधनेनिमित्तभूतेसति बाधितुंवा कृत्यार्थेतवैकेन्केन्यत्वनइतिकेन्प्रत्ययः अर्चन्ति पूजयन्ति यद्वा तस्माइत् यजमानायैव बा- धेबलेनिमित्तभूतेसति बाधइतिबलनाम वाधःतविषीतितन्नामसुपाठात् प्रजावत् पुत्राद्युपेतमायुः अन्नं लब्धुं ओजसा बलेनयुक्ताः अर्चन्ति इन्द्रंपूजयन्ति ऋत्विजइतिशेषः किंच धीतयः कर्मवन्तोयज- मानाः इन्द्रे इन्द्रसमीपे गंगायांघोषइतिवत् तत्सामीप्यंलक्ष्यते इन्द्रलोकेइत्यर्थः तत्रओक्यं ओकः नि- वासस्थानं स्वार्थेयत् दिधिषन्त धारयन्ति धिषशब्दे अत्रधारणार्थः जौहोत्यादिकःव्यत्ययेनान्तादेशः तएवपुनर्विशॆष्यन्ते धीतयः स्वर्गसाधनकर्मवन्तः सन्तोदेवाँअच्छान देवानाभिमुख्येनप्राप्तुमिवओ- क्यंदिधिषन्तेत्यन्वयः ॥ ५ ॥ अविवाक्येहनि मानसग्रहभक्षणानन्तरं नक्षत्रेषुदृश्यमानेषु अध्वर्युप्रमुखाःसर्वेयुवन्तमित्येतांज- पेयुः गार्हपत्येजुह्वतीतिखण्डेसूत्रितम्—युवन्तमिन्द्रापर्वतापुरोयुधेतिजपन्तइति ।