श्रवणम्

1.104.7 समानपद
अधा᳚ मन्ये॒ श्रत्ते᳚ अस्मा अधायि॒ वृषा᳚ चोदस्व मह॒ते धना᳚य ।
मा नो॒ अकृ᳚ते पुरुहूत॒ योना॒विन्द्र॒ क्षुध्य᳚द्भ्यो॒ वय᳚ आसु॒तिं दा᳚ः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । म॒न्ये॒ । श्रत् । ते॒ । अ॒स्मै॒ । अ॒धा॒यि॒ । वृषा᳚ । चो॒द॒स्व॒ । म॒ह॒ते । धना᳚य ।
मा । नः॒ । अकृ᳚ते । पु॒रु॒॑हू॒त॒ । योनौ᳚ । इन्द्र᳚ । क्षुध्य᳚त्॑भ्यः । वयः᳚ । आ॒॑सु॒तिम् । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र अधाथानंतरं मन्ये । त्वां मनसा जानामि । ते तवास्मै बलाय श्रदधायि । अस्माभिः श्रद्धा कृता । त्वदीयबलविषयमादरातिशयेन स्तोत्रं कृतमित्यर्थः । वृषा कामानां वर्षिता स त्वं महते प्रौढाय धनाय चोदस्व । चोदय । अस्मान्प्रेरय । हे पुरुहूत । पुरुभिर्बहुभिर्यजमानैराहूतेंद्र । अकृतेऽनिष्पादिते धनशून्ये योनौ । गृहनामैतत् । गृहे नोऽस्मान्मा धाः । निधेहि । धनधान्यपूर्णे गृहेऽस्मान्वासयेत्यर्थः । अपि च हे इंद्र क्षुध्यध्भो बुभुक्षितेभ्योऽन्येभ्योऽपि स्तोतृभ्यो वयोऽन्न मासुतिं पेयं क्षीरादिकं च दाः । देहि ॥ अधायि । दधातेः कर्मणि लुङि च्लेश्चिण् । आतो युक् चिण्कृतोरिति युक् । क्षुध्यद्भ्यः । क्षुधबुभुक्षायाम् । दिवादित्वात् श्यन् । नित्त्वादाद्युदात्तत्वं ॥ ७ ॥