श्रवणम्

1.104.3 समानपद
अव॒ त्मना᳚ भरते॒ केत᳚वेदा॒ अव॒ त्मना᳚ भरते॒ फेन᳚मु॒दन् ।
क्षी॒रेण᳚ स्नात॒ः कुय᳚वस्य॒ योषे᳚ ह॒ते ते स्या᳚तां प्रव॒णे शिफा᳚याः ॥
▶ पदपाठः (Word-by-word)
अव᳚ । त्मना᳚ । भ॒र॒ते॒ । केत᳚॑वेदाः । अव᳚ । त्मना᳚ । भ॒र॒ते॒ । फेन᳚म् । उ॒दन् ।
क्षी॒रेण᳚ । स्ना॒तः॒ । कुय᳚वस्य । योषे॒ इति᳚ । ह॒ते इति᳚ । ते इति᳚ । स्या॒ता॒म् । प्र॒व॒णे । शिफा᳚याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

केतवेदाऽ केतं ज्ञातं वेदः परेषां धनं येन स शादृशः कुयवनामासुरस्त्मनात्मना स्वयमेवाव भरते । ज्ञातं परेषां धनमपहरति । अपि च सोऽसुर उदन्नुदकेऽंतर्वर्तमानः सन्फेनं फेनयुक्तमुदकमात्मना स्वयमेवाच भरते । अपहरति । क्षीरेण क्षरणशीलेन तेनापहृतेनोदकेन कुयवस्यासुरस्य योषेभार्ये स्नातः । स्नानं कुर्वाते । तादृश्यौ स्त्रियौ शिफायाः । शिफा नाम नदी । तस्याः प्रवणे निम्ने प्रवेष्टुमशक्येऽगाधप्रदेशे हते नष्टे स्याताम् । भवेताम् । हे इंद्र त्वं परेषां धनमपहृत्यान्यैर्दुरवगाह उदकस्य मध्ये वर्तमानं कुयवं सकुटुंबमवधीरित्यर्थः ॥ त्मना । मंत्रेष्टाङ्यादेरात्मन इत्याकारलोपः । भरते हृञ् हरणे । हृग्रहोर्भ इति भत्वम् । केतवेदाः । कित ज्ञाने । कर्मणि घञ् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । उदन् । पद्दन्नित्यादिनोदकशब्दस्योदन्नादेशः । सुपां सुलुगिति सप्तम्या लुक् ॥ ३ ॥