मान्त᳚रां॒ भुज॒मा री᳚रिषो न॒ः श्रद्धि᳚तं ते मह॒त इ᳚न्द्रि॒याय᳚ ॥
पदपाठः (Word-by-word)
मा । अन्त᳚राम् । भुज᳚म् । आ । रि॒रि॒षः॒ । नः॒ । श्रद्धि᳚तम् । ते॒ । म॒ह॒ते । इ॒न्द्रि॒याय᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र स त्वं नोऽस्मान्सूर्ये सर्वस्य पेरक आदित्य आ भज । आभाजय । आभिमुख्येन भक्तान्संभक्तान्कुरु । तथा स त्वमप्स्वब्देवतास्वस्मानाभाजय । अपि च जीवशंसे जीवैः प्राणिभिः शंसनीये कामयितव्येऽनागास्त्वेऽपापत्वे पापराहित्येऽस्मानाभाजय । अपि च नोऽस्माकमंतरां गर्भरूपेणांतर्वर्तमानां भुजं पालयित्रीं प्रजामा समंतान्मा रीरिषः । मा हिंसीः । ते तव महते प्रभूतायेंद्रियाय बलाय श्रद्धितम् । अस्माभिः श्रद्धानं कृतम् । त्वदीयं बलं बहुमानपूर्वकं स्तुम इत्यर्थः । तस्मात्तादृशबलयुक्तस्त्वं मा रीरिष इति पूर्वेण संबंधः ॥ अनागास्त्वे न विद्यत आगः पापं यस्य सोऽनागः । तस्य भावस्तत्त्वम् । छांदस उपधादीर्घः । जीवशंसे । शन्सु स्तुतौ । कर्मणि घञ् । थाथादिनोत्तरपदांतोदात्तत्वम् । भुजम् । भुनक्ति पालयतीति भुक् प्रजा । क्विप् । रीरिषः । रिष हिंसायाम् । स्वार्थे ण्यंतादस्माल्लुङि चङि णिलोप उपधाह्रस्वत्वादीनि । छांदसं पदकालीनमभ्यासह्रस्वत्वम् । श्रद्धितम् । श्रच्छब्दस्य ऊर्यादित्वेन (पा १-४-६१) गतित्वाद्गतिरनंतर इति पूर्वपदप्रकृतिस्वरत्वं ॥ ६ ॥