दे॒वासो᳚ म॒न्युं दास᳚स्य श्चम्न॒न्ते न॒ आ व᳚क्षन्त्सुवि॒ताय॒ वर्ण᳚म् ॥
पदपाठः (Word-by-word)
दे॒वासः᳚ । म॒न्युम् । दास᳚स्य । श्च॒म्न॒न् । ते । नः॒ । आ । व॒क्ष॒न् । सु॒॑वि॒ताय । वर्ण᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
त्ये ते नरो यज्ञस्य नेतारो यजमाना ऊतये रक्षणायेंद्रमो । आ उ इत्येतन्निपातद्वयसमुदाय आकारार्थः । आ गुः आगच्छंति । स चेंद्र आगतांस्तान् नू चित्क्षिप्रं सद्यस्तदानीमेवाध्वनोऽनुष्ठानमार्गाञ्जगम्यात् । गमयतु । प्रापयतु । देवासः सर्वे देवा दासस्योपक्षपयितुरसुरस्य मन्युं क्रोधं श्चम्नन् । भक्षयंतु । हिंसंत्वित्यर्थः । अपि च ते देवा नोऽस्माकं सुविताय सुष्ठु प्राप्तव्याय यज्ञाय वर्णमनिष्टनिवारकमिंद्रमा वक्षन् । आवहंतु । आनयंतु ॥ जगम्यात् । गमेरंतर्भावितण्यर्थात् लिङि बहुलं छंदसीति शपः श्लुः । श्चम्नन् । चमु अदने । लेट व्यत्ययेन श्ना । शकारोपजनश्छांदसः । यद्वा । श्चम्नातिः प्रकृत्यंतरं हिंसार्थं द्रष्टव्यम् । वक्षन् । वह प्रापणे । लेट सिब्बहुलं लेटीति सिप् । ढत्वकत्वषत्वानि । सुविताय । सुपूर्वादेतेः कर्मणि निष्ठा । तन्वादित्वादुवङ् । सूपमानात् क्त इत्युत्तरपदांतोदात्तत्वम् । वर्णम् । वृञ् वरणे । अस्मादंतर्भावितण्यर्थात्क ॄज ॄवृसिद्रुपन्यनिस्वपिभ्यो निच्च (उ ३-१०) इति नप्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ २ ॥