अ॒ञ्ज॒सी कु᳚लि॒शी वी॒रप᳚त्नी॒ पयो᳚ हिन्वा॒ना उ॒दभि᳚र्भरन्ते ॥
पदपाठः (Word-by-word)
अ॒ञ्ज॒सी । कु॒लि॒शी । वी॒र॑प᳚त्नी । पयः᳚ । हि॒न्वा॒नाः । उ॒द॑भिः᳚ । भ॒र॒न्ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
उपरस्योदकमध्य उप्तस्यावस्थितस्यायोः परेषामुपद्रवार्धमितस्ततो गच्छतः कुयवस्यासुरस्यनाभिः संनद्धमावसनस्थानं युयोप । गूढमासीत् । यथान्यैर्न दृश्यते सोऽसुरस्तथाकरोदित्यर्थः । अपि च । पूर्वाभिः पूरयित्रीभिरात्मनापहृताभिरद्भिः प्रतिरते । सोऽसुरः प्रवर्धते । स च शूरः शौर्योपेतो राष्टि । राजते च । आत्मीयेन शौर्येण लोके प्रख्यातो भवतीत्यर्थः । तमिममसुरमंजस्यांजस्योपेता कुलिशी कुलं शातयंती वीरपत्नी वीरस्य पालयत्री । एतत्संज्ञि कास्तिस्रोनद्यः पयः पयसा तत्संबंधिना सारभूतेनोदकेन हिन्वानाः प्रीणयंत्य उदभिरात्मीयैरुदकैर्भरंते । धारयंति ॥ युयोप । युप विमोहने । नाभिः । नहो भश्च (उ ४-१२५) इतीञ् प्रत्ययः । राष्टि । राजृ दीप्तौ । बहुलं छंदसीति शपो लुक् । व्रश्चादिना षत्वे ष्टुत्वं पयः । सुपां सुलुगिति तृतीयायालुक् । हिन्वानाः । हिविः प्रीणनार्थः । इदित्त्वान्नुम् । अस्मात्ताच्भेलिकश्चानश् । आगमानुशासनस्यानित्यत्वान्मुगभावः । चानशो लसार्वधातुकत्वाभावात्तत्स्वराभावे चित्स्वर एव शिष्यते ॥ ४ ॥