इन्द्रो᳚ अ॒स्मभ्यं᳚ शिक्षतु॒ वि भ᳚जा॒ भूरि᳚ ते॒ वसु᳚ भक्षी॒य तव॒ राध᳚सः ॥
पदपाठः (Word-by-word)
इन्द्रः᳚ । अ॒स्मभ्य᳚म् । शि॒क्ष॒तु॒ । वि । भ॒ज॒ । भूरि᳚ । ते॒ । वसु᳚ । भ॒क्षी॒य । तव᳚ । राध᳚सः ॥
सायणभाष्यम् (Sayana Commentary)
अर्यः स्वामी पालयिता य इंद्रो मर्तभोजनं सर्वैर्मनुष्यैरुपभोज्यमन्नं दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय पराददाति प्रयच्छति स इंद्रोऽस्मभ्यं शिक्षतु । तादृशमन्नं ददातु । अवशिष्टपादद्वयं प्रत्यक्षकृतम् । हे इंद्र अस्मभ्यं दातुं धनं वि भज । विभक्तं कुरु । यतस्ते तव वसु धनं भूरि बहुलमसंख्यातं अतस्तव राधसो धनस्यैकदेशं भक्षीय । भजेय । प्राप्नुयां ॥ पराददाति । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । दाशुषे । दाशृ दाने । दाश्वान् साह्वानिति क्वसुप्रत्ययांतो निपात्यते । चतुर्थ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । भक्षीय । भज सेवायाम् । प्रार्थनायां लिङि तस्य च्छंदस्युभयथेत्यार्धधातुकत्वाच्छबभावः सलोपाभावश्च । एकाच इतीट् प्रतिषेधः । आगमानुदात्तत्वे प्रत्ययस्वर एव शिष्यते । पूर्वपदस्यासमानवाक्यगतत्वान्निघाताभावः । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्या इति वचनात् ॥ ६ ॥