श्रवणम्

1.81.8
मा॒दय᳚स्व सु॒ते सचा॒ शव᳚से शूर॒ राध᳚से ।
वि॒द्मा हि त्वा᳚ पुरू॒वसु॒मुप॒ कामा᳚न्त्ससृ॒ज्महे॑था᳚ नो॑वि॒ता भ᳚व ॥
▶ पदपाठः (Word-by-word)
मा॒दय᳚स्व । सु॒ते । सचा᳚ । शव᳚से । शू॒र॒ । राध᳚से ।
वि॒द्म । हि । त्वा॒ । पु॒रु॒॑वसु᳚म् । उप᳚ । कामा᳚न् । स॒सृ॒ज्महे᳚ । अथ᳚ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूर शौर्यवन्निंद्र सुते सोमेऽभिषुते सत्यागत्य सचास्माकं सखा सन् मादयस्व । तेन सोमेन तृप्तो भव । किमर्थम् । शवसे बलार्थं राधसेऽस्माकां धनार्थं च । त्वा त्वां पुरूवसुं बहुधनं विद्म हि । वयं जानीमः खलु । अतोऽस्मदीयान् कामान् मात्रा गवा वत्सानिव त्वयोप ससृज्महे हि । त्वया खल्वेकीकुर्मः । अथानंतरं नोऽस्माकमविताभिलषितफलप्रदानेन रक्षिता भव ॥ मादयस्व । मद तृप्तियोगे । चुरादिरात्मनेपदी । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते । ससृज्महे । सृज विसर्गे । बहुलं छंदसीति विकरणस्य श्लुः । प्रत्ययाद्युदात्तत्वम् । अत्रापि हिशब्दानुषंगाच्छंदस्यनेकमपि साकांक्षं (पा ८-१-३५) इति निघातप्रतिषेधः ॥ ८ ॥