असि॒ हि वी᳚र॒ सेन्यो॑सि॒ भूरि᳚ पराद॒दिः ।
असि᳚ द॒भ्रस्य᳚ चिद्वृ॒धो यज᳚मानाय शिक्षसि सुन्व॒ते भूरि᳚ ते॒ वसु᳚ ॥
असि᳚ द॒भ्रस्य᳚ चिद्वृ॒धो यज᳚मानाय शिक्षसि सुन्व॒ते भूरि᳚ ते॒ वसु᳚ ॥
पदपाठः (Word-by-word)
असि᳚ । हि । वी॒र॒ । सेन्यः᳚ । असि᳚ । भूरि᳚ । प॒रा॒॑द॒दिः ।
असि᳚ । द॒भ्रस्य᳚ । चि॒त् । वृ॒धः । यज᳚मानाय । शि॒क्ष॒सि॒ । सु॒न्व॒ते । भूरि᳚ । ते॒ । वसु᳚ ॥
असि᳚ । द॒भ्रस्य᳚ । चि॒त् । वृ॒धः । यज᳚मानाय । शि॒क्ष॒सि॒ । सु॒न्व॒ते । भूरि᳚ । ते॒ । वसु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वीर शत्रुक्षेपणकुशलेंद्र त्वं सेन्योऽसि । सेनार्हो भवसि । त्वमेकोऽपि सेनासदृशो भवसीत्यर्थः । हि यस्मादेवं तस्माद्भूरि प्रभूतं शत्रूणां धनं पराददिः परादाता शत्रूणां पराङ्मुखं यथा भवति तथा आदातासि । भवसि । दभ्रस्य चित् । अल्पनामैतत् । अल्पस्यापि तव स्तोतुर्वृधो वर्धयितासि । तथा यजमानाय यागं कुर्वते सुन्वते सोमाभिषवं कुर्वते पुरुषाय शिक्षसि । अपेक्षितं धनं ददासि । शिक्षतिर्दानकर्मा । यस्मात्ते तव वसु धनं भूरि बहुलमक्षयं धनं विध्यते । तस्माद्ददासीति भावः ॥ पराददिः । डुदाञ् दाने । आदृगमहनजन इति किप्रत्ययः । लिड्वद्भावाद्द्विर्वचने ह्रस्वत्वम् । आतो लोप इटि चेत्याकारलोपः । वृधः । वृधेरंतर्भावितण्यर्थादिगुपधलक्षणः कः । सुन्वते । शतुरनुम इति विभक्तेरुदात्तत्वं ॥ २ ॥