ए॒ते त᳚ इन्द्र ज॒न्तवो॒ विश्वं᳚ पुष्यन्ति॒ वार्य᳚म् ।
अ॒न्तर्हि ख्यो जना᳚नाम॒र्यो वेदो॒ अदा᳚शुषां॒ तेषां᳚ नो॒ वेद॒ आ भ᳚र ॥
अ॒न्तर्हि ख्यो जना᳚नाम॒र्यो वेदो॒ अदा᳚शुषां॒ तेषां᳚ नो॒ वेद॒ आ भ᳚र ॥
पदपाठः (Word-by-word)
ए॒ते । ते॒ । इ॒न्द्र॒ । ज॒न्तवः᳚ । विश्व᳚म् । पु॒ष्य॒न्ति॒ । वार्य᳚म् ।
अ॒न्तः । हि । ख्यः । जना᳚नाम् । अ॒र्यः । वेदः᳚ । अदा᳚शुषाम् । तेषा᳚म् । नः॒ । वेदः᳚ । आ । भ॒र॒ ॥
अ॒न्तः । हि । ख्यः । जना᳚नाम् । अ॒र्यः । वेदः᳚ । अदा᳚शुषाम् । तेषा᳚म् । नः॒ । वेदः᳚ । आ । भ॒र॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र ते तव स्वभूता एते जंतवो यजमानलक्षणा जना विश्वं सर्वं वार्य सर्वैः संभजनीयं हविः पुष्यंति । वर्धयंति । आदाशुषां हविषामदातृणां जनानामंतर्मध्ये विद्यमानं वेदो धनमर्यः सर्वेषां स्वामी त्वं ख्यो हि । पश्यसि हि । जानासीत्यर्थः । तेषामयजमानानां वेदो धनं नोऽस्मभ्यमा भर । आहर । प्रयच्छेति यावत् । अयजमानेषु विद्यमानं धनं यागानुपयुक्तत्वाद्व्यर्थमेव भवेत् । अतस्तस्य धनस्य सार्थकत्वाय तदीयं धनमपहृत्य यजमानेभ्यः प्रयच्छेति तात्पर्यार्थः ॥ ख्यः । ख्या प्रकथने । अयं दर्शनार्थोऽपि । वर्तमाने छांदसो लुङ् । अस्यतिवक्तीत्यादिना च्लेरङादेशः । आतो लोप इट चेत्याकारलोपः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । हि चेति निघातपतिषेधः ॥ ९ ॥